सर्वाष् टीकाः ...{Loading}...
०१ यास् ते प्राचीः
विश्वास-प्रस्तुतिः ...{Loading}...
यास् ते प्राचीः प्रदिशो या उदीचीर्
यास् ते भूमे अधराद् याश् च पश्चात् ।
स्योनास् ता मह्यं चरते भवन्तु
मा नि पप्तं भुवने शिश्रियाणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् ते प्राचीः प्रदिशो या उदीचीर्
यास् ते भूमे अधराद् याश् च पश्चात् ।
स्योनास् ता मह्यं चरते भवन्तु
मा नि पप्तं भुवने शिश्रियाणे ॥
सर्वाष् टीकाः ...{Loading}...
०२ मा मा पश्चान्
विश्वास-प्रस्तुतिः ...{Loading}...
मा मा पश्चान् मा पुरस्तान् नुदिष्ठाः
स्वस्ति भूमे मे कृणु
वरीयो यावया वधन्
मा विदन् परिपन्थिनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा मा पश्चान् मा पुरस्तान् नुदिष्ठाः
स्वस्ति भूमे मे कृणु
वरीयो यावया वधन्
मा विदन् परिपन्थिनः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यावत् ते ऽभि
विश्वास-प्रस्तुतिः ...{Loading}...
यावत् ते ऽभि विपश्यामि
भूमे सूर्येण मेदिना ।
तावन् मे चक्षुर् मा मेष्ट-
-उत्तराम् उत्तरां समाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावत् ते ऽभि विपश्यामि
भूमे सूर्येण मेदिना ।
तावन् मे चक्षुर् मा मेष्ट-
-उत्तराम् उत्तरां समाम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यत् ते भूमे
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते भूमे विखनाम्य्
ओषं तद् अपि रोहतु ।
मा ते मर्म विमृग्वरि
मा ते हृदयम् अर्पिपम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते भूमे विखनाम्य्
ओषं तद् अपि रोहतु ।
मा ते मर्म विमृग्वरि
मा ते हृदयम् अर्पिपम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यच् छयानः पर्यावर्ते
विश्वास-प्रस्तुतिः ...{Loading}...
यच् छयानः पर्यावर्ते
दक्षिणं सव्यम् अभि भूमे पार्श्वम् ।
उत्तानास् त्वा प्रतीचीं
पृष्ट्या यद् अभिशेमहे
मा हिंसीस् तत्र नो भूमे
सर्वस्य प्रतिशीवरि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यच् छयानः पर्यावर्ते
दक्षिणं सव्यम् अभि भूमे पार्श्वम् ।
उत्तानास् त्वा प्रतीचीं
पृष्ट्या यद् अभिशेमहे
मा हिंसीस् तत्र नो भूमे
सर्वस्य प्रतिशीवरि ॥
सर्वाष् टीकाः ...{Loading}...
०६ ग्रीष्मस् ते भूमे
विश्वास-प्रस्तुतिः ...{Loading}...
ग्रीष्मस् ते भूमे वर्षाणि
शरद् धेमन्तः शिशिरो वसन्तः ।
ऋतवस् ते विहिता हायना
अहोरात्रे पृथिवी नो दुहाताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ग्रीष्मस् ते भूमे वर्षाणि
शरद् धेमन्तः शिशिरो वसन्तः ।
ऋतवस् ते विहिता हायना
अहोरात्रे पृथिवी नो दुहाताम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ याप सर्पं नुदमाना
विश्वास-प्रस्तुतिः ...{Loading}...
याप सर्पं नुदमाना विमृग्वरी
यस्याम् आसन्न् अग्नयो अप्स्व् अन्तः ।
परा दस्यून् ददती देवपीयून्
इन्द्रं वृणाना पृथिवी न वृत्रं
शक्राय दध्रे वृषभाय वृष्णे ।
स नो भूमेर् आ दिशतु यद् धनं कामयामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
याप सर्पं नुदमाना विमृग्वरी
यस्याम् आसन्न् अग्नयो अप्स्व् अन्तः ।
परा दस्यून् ददती देवपीयून्
इन्द्रं वृणाना पृथिवी न वृत्रं
शक्राय दध्रे वृषभाय वृष्णे ।
स नो भूमेर् आ दिशतु यद् धनं कामयामहे ॥
सर्वाष् टीकाः ...{Loading}...
०८ भगो अनु प्रयुङ्क्ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
भगो अनु प्रयुङ्क्ताम् +++(Bhatt. °yuṃktām)+++
इन्द्रो यातु पुरोगवः ।
यस्यां सदोहविर्धाने
यूपो यस्यां निमीयते ।
ब्रह्माणो यस्याम् अर्चन्ति
ऋग्भिः साम्ना यजुर्विदः ।
युज्यन्ते यस्याम् ऋत्विजः
सोमम् इन्द्राय पातवे ।
सा नो भूमिर् दक्षिणायां
सुशेवा यज्ञे दधातु सुमनस्यमाना ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगो अनु प्रयुङ्क्ताम् +++(Bhatt. °yuṃktām)+++
इन्द्रो यातु पुरोगवः ।
यस्यां सदोहविर्धाने
यूपो यस्यां निमीयते ।
ब्रह्माणो यस्याम् अर्चन्ति
ऋग्भिः साम्ना यजुर्विदः ।
युज्यन्ते यस्याम् ऋत्विजः
सोमम् इन्द्राय पातवे ।
सा नो भूमिर् दक्षिणायां
सुशेवा यज्ञे दधातु सुमनस्यमाना ॥
सर्वाष् टीकाः ...{Loading}...
०९ यस्यां पूर्वे भूतकृत
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यां पूर्वे भूतकृत
ऋषयो गा उदानृचुः ।
सप्त सत्रेण वेधसो
यज्ञेन तपसा सह ।
सा नः पशून् विश्वरूपान् दधातु
दीर्घं म आयुः सविता कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्यां पूर्वे भूतकृत
ऋषयो गा उदानृचुः ।
सप्त सत्रेण वेधसो
यज्ञेन तपसा सह ।
सा नः पशून् विश्वरूपान् दधातु
दीर्घं म आयुः सविता कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
१० यस्याम् अन्नं व्रीहियवौ
विश्वास-प्रस्तुतिः ...{Loading}...
यस्याम् अन्नं व्रीहियवौ
यत्रेमाः पञ्च कृष्टयः ।
भूम्यै पर्जन्यपत्न्यै
नमो ऽस्तु वर्षम् एधते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्याम् अन्नं व्रीहियवौ
यत्रेमाः पञ्च कृष्टयः ।
भूम्यै पर्जन्यपत्न्यै
नमो ऽस्तु वर्षम् एधते ॥