००३

सर्वाष् टीकाः ...{Loading}...

०१ अग्निर् दिव आ

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् दिव आ तपत्य्
अग्नेर् देवस्योर्व् अन्तरिक्षम् ।
अग्निं मर्तास इन्धते
हव्यवाहं घृतप्रियम् ॥

०२ अग्निवासाः पृथिव्य् असितज्ञुस्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निवासाः पृथिव्य् असितज्ञुस्
त्विषीमन्तं संशितं मा कृणोतु ।
भूम्यां देवेभ्यो जुह्वति
यज्ञं हव्यम् अरंकृतम् । (Bhatt. ॥)
भूम्यां मनुष्या जीवन्ति
स्वधयान्नेन मर्त्याः ।
सा नो भूमिः प्राणम् आयुर् दधातु
जरदष्टिं मा पृथिवी कृणोतु ॥

०३ यस् ते गन्धः

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते गन्धः पृथिवि संबभूव
यं बिभ्रत्य् ओषधयो यम् आपः । (Bhatt. vibhraty)
यं गन्धर्वा अप्सरसश् च भेजिरे
यस् ते गाम् अश्वम् अर्हति ।
तेनास्मान् सुरभीन् कृणु
मा नो द्विक्षत कश् चन ॥

०४ यस् ते गन्धः

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते गन्धः पुष्करम् आविवेश
यं संजभ्रुः सूर्याया विवाहे ।
अमर्त्याः पृथिवि गन्धम् अग्रे ।
तेनास्मान् सुरभीन् कृणु
मा नो द्विक्षत कश् चन ॥

०५ यस् ते भूमे

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते भूमे पुरुषेषु
स्त्रीषु पुंसु भगो रुचिर्
यो वधूषु वधूयुषु ।
यो गोष्व् अश्वेषु
यो मृगेषूत हस्तिषु ।
कन्यायां वर्चो यद् भूमे
तेनास्माꣳ अधि सं सृज
मा नो द्विक्षत कश् चन ॥

०६ शिला भूमिर् अश्मा

विश्वास-प्रस्तुतिः ...{Loading}...

शिला भूमिर् अश्मा पांसुर्
या भूमिः संभृता धृता ।
यस्यां वृक्षा वानस्पत्या
ध्रुवास् तिष्ठन्ति विश्वहा ।
भूमिं हिरण्यवक्षसं
धृताम् अच्छा वदामसि ॥

०७ उदीराणा उतासीनास् तिष्ठन्तः

विश्वास-प्रस्तुतिः ...{Loading}...

उदीराणा उतासीनास्
तिष्ठन्तः प्रक्रामन्तः ।
पद्भ्यां दक्षिणसव्याभ्यां
मा व्यथिष्महि भूम्याम् ॥

०८ विमृग्वरीं पृथिवीम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

विमृग्वरीं पृथिवीम् आ वदामि
क्षमां भूमिं ब्रह्मणा वावृधानाम् ।
ऊर्जं पुष्टिं बिभ्रतीम् अन्नभागं
घृतं त्वाभि नि षीदामि भूमे ॥

०९ शुद्धा म आपस्

विश्वास-प्रस्तुतिः ...{Loading}...

शुद्धा म आपस् तन्वः क्षरन्ति
यो मे सेहुर् अप्रिये तं नि दध्मः ।
पवित्रेण पृथिवीम् उत् पुनामि ॥

१० निधीन् बिभ्रती बहुधा

विश्वास-प्रस्तुतिः ...{Loading}...

निधीन् बिभ्रती बहुधा गुहा वसु
मणिं हिरण्यं पृथिवी दधातु नः ।
वसूनि नो वसुदा रासमाना
देवी दधातु सुमनस्यमाना ॥