००२

सर्वाष् टीकाः ...{Loading}...

०१ गिरयस् ते पर्वता

विश्वास-प्रस्तुतिः ...{Loading}...

गिरयस् ते पर्वता हिमवन्तो
ऽरण्यन् ते पृथिवि स्योनम् अस्तु नः ।
बभ्रुं कृष्णां रोहिणीं विश्वरूपां
ध्रुवां भूमिं पृथिवीम् इन्द्रगुप्ताम्
अजीतो ऽहतो अक्षतो अध्यष्ठां पृथिवीम् अहम् ॥ +++(Bhatt. ajītohato)+++

०२ यत् ते मध्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते मध्यं पृथिवि यच् च नभ्यं
यास् त ऊर्जस् तन्वः संबभूवुः ।
तासु नो धेह्य् अभि नः पवस्व ॥

०३ माता भूमिः पुत्रो

विश्वास-प्रस्तुतिः ...{Loading}...

माता भूमिः पुत्रो अहं पृथिव्याः
पर्जन्यः पिता स उ नः पिपर्तु ॥

०४ यस्यां वेदिं परिगृह्नन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यां वेदिं परिगृह्नन्ति भूम्यां
यस्यां यज्ञं तन्वते विश्वकर्माणः ।
यस्यां मीयन्ते स्वरवः पृथिव्याम्
ऊर्ध्वाः शुक्रा आहुत्याः पुरस्तात् ।
सा नो भूमिर् वर्धयाद् वर्धमाना ॥

०५ यो नो द्वेषत्

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो द्वेषत् पृथिवि यत् पृतन्याद्
यो ऽभिमन्यातै मनसा वधेन ।
तन् नो भूमे रन्धय पूर्वकृत्वने ॥

०६ त्वज्जातास् त्वयि चरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

त्वज्जातास् त्वयि चरन्ति मर्त्यास्
त्वं बिभर्षि द्विपदश् चतुष्पदः ।
त्वयीमे पृथिवि पञ्च मानवा
येभ्यो ज्योतिर् अमृतं मर्त्येभ्य
उद्यन् सूर्यो रश्मिभिर् आ तनोति ॥

०७ ता नः प्रजाः

विश्वास-प्रस्तुतिः ...{Loading}...

ता नः प्रजाः सं दुह्रतां समग्रा
वाचो मधु पृथिवी धेहि मह्यम् ॥

०८ विश्वस्वं मातरम् ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वस्वं मातरम् ओषधीनां
ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
शिवां स्योनाम् अनु चरेम विश्वहा ॥

०९ महत् सधस्थं महती

विश्वास-प्रस्तुतिः ...{Loading}...

महत् सधस्थं महती बभूविथ
महान् वेग एजथुर् वेपथुष् टे ।
महांस् त्वेन्द्रो रक्षति वीर्येण
सा नो भूमे प्ररोचय
हिरण्यस्येव संदृशि ॥

१० अग्निर् भूम्याम् अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् भूम्याम् अग्निर् ओषधीष्व्
अग्निम् आपो बिभ्रत्य् अग्निर् अश्मसु ।
अग्निर् अन्तः पुरुषेषु
गोष्व् अश्वेष्व् अग्नयः ॥