सर्वाष् टीकाः ...{Loading}...
०१ सत्यं बृहद् ऋतम्
विश्वास-प्रस्तुतिः ...{Loading}...
सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो
ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
सा नो भूतस्य भव्यस्य पत्न्य्
उरुं लोकं पृथिवी नः कृणोत्व्
असंबाधं मध्यतो मानवेषु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो
ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
सा नो भूतस्य भव्यस्य पत्न्य्
उरुं लोकं पृथिवी नः कृणोत्व्
असंबाधं मध्यतो मानवेषु ॥
सर्वाष् टीकाः ...{Loading}...
०२ यस्या उद्यतः प्रवतः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्या उद्यतः प्रवतः समं बहु
नानावीर्या ओषधीर् या बिभर्ति ।
पृथिवी नः प्रथतां राध्यतां नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्या उद्यतः प्रवतः समं बहु
नानावीर्या ओषधीर् या बिभर्ति ।
पृथिवी नः प्रथतां राध्यतां नः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यस्यां समुद्र उत
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यां समुद्र उत सिन्धुर् आपो
यस्यां देवा अनृतम् अन्वविन्दन् ।
या बिभर्ति बहुधा प्राणम् एजत् (read prāṇad with K?)
सा नो भूमिर् गोष्व् अश्वेष्व् अप्य् अन्ने कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्यां समुद्र उत सिन्धुर् आपो
यस्यां देवा अनृतम् अन्वविन्दन् ।
या बिभर्ति बहुधा प्राणम् एजत् (read prāṇad with K?)
सा नो भूमिर् गोष्व् अश्वेष्व् अप्य् अन्ने कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ यस्यां पूर्वे पूर्वजना
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यां पूर्वे पूर्वजना विचक्रिरे
यस्यां देवा असुरान् अभ्यवर्तयन् ।
यस्याम् इदं जीवति विश्वम् एजत्
सा नो भूमिः पूर्वपेये दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्यां पूर्वे पूर्वजना विचक्रिरे
यस्यां देवा असुरान् अभ्यवर्तयन् ।
यस्याम् इदं जीवति विश्वम् एजत्
सा नो भूमिः पूर्वपेये दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०५ यस्यां चतस्रः प्रदिशः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यां चतस्रः प्रदिशः पृथिव्यां
यस्याम् अन्नं कृष्टयः संबभूवुः ।
गवाम् अश्वानां वयसश् च विष्ठा
भगं वर्चः पृथिवी नो दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्यां चतस्रः प्रदिशः पृथिव्यां
यस्याम् अन्नं कृष्टयः संबभूवुः ।
गवाम् अश्वानां वयसश् च विष्ठा
भगं वर्चः पृथिवी नो दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०६ विश्वम्भरा वसुधानी प्रतिष्ठा
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वंभरा वसुधानी प्रतिष्ठा
हिरण्यवक्षा जगतो निवेशनीः ।
वैश्वानरं बिभ्रती भूमिर् अग्निम्
इन्द्रर्षभा द्रविणे नो दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वंभरा वसुधानी प्रतिष्ठा
हिरण्यवक्षा जगतो निवेशनीः ।
वैश्वानरं बिभ्रती भूमिर् अग्निम्
इन्द्रर्षभा द्रविणे नो दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०७ यस्याम् आपः परिचराः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्याम् आपः परिचराः समानीर्
अहोरात्रे अप्रमादं क्षरन्ति ।
सा नो भूमिर् भूरिधारा पयो दुहाम्
अथो उक्षतु वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्याम् आपः परिचराः समानीर्
अहोरात्रे अप्रमादं क्षरन्ति ।
सा नो भूमिर् भूरिधारा पयो दुहाम्
अथो उक्षतु वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०८ यां रक्षन्त्य् अस्वप्ना
विश्वास-प्रस्तुतिः ...{Loading}...
यां रक्षन्त्य् अस्वप्ना विश्वदानीं
देवा भूमिं पृथिवीम् अप्रमादम् ।
सा नो मधु प्रियं दुहाम्
अथो उक्षतु वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां रक्षन्त्य् अस्वप्ना विश्वदानीं
देवा भूमिं पृथिवीम् अप्रमादम् ।
सा नो मधु प्रियं दुहाम्
अथो उक्षतु वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०९ यार्णवे ऽधि सलिलम्
विश्वास-प्रस्तुतिः ...{Loading}...
यार्णवे ऽधि सलिलम् अग्र आसीद्
यां मायाभिर् अन्वचरन् मनीषिणः ।
यस्यां हृदयं परमे व्योमन्त्
सत्येनावृतम् अमृतं पृथिव्याः ।
सा नो भूमिस् त्विषिं बलं राष्ट्रे दधातु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यार्णवे ऽधि सलिलम् अग्र आसीद्
यां मायाभिर् अन्वचरन् मनीषिणः ।
यस्यां हृदयं परमे व्योमन्त्
सत्येनावृतम् अमृतं पृथिव्याः ।
सा नो भूमिस् त्विषिं बलं राष्ट्रे दधातु मे ॥
सर्वाष् टीकाः ...{Loading}...
१० याम् अश्विनाव् अमिमाताम्
विश्वास-प्रस्तुतिः ...{Loading}...
याम् अश्विनाव् अमिमातां
विष्णुर् यस्यां विचक्रमे ।
इन्द्रो यां चक्र आत्मने
अनमित्रां छचीपतिः ।
सा नो भूमिर् वि सृजतां
माता पुत्राय नः पयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याम् अश्विनाव् अमिमातां
विष्णुर् यस्यां विचक्रमे ।
इन्द्रो यां चक्र आत्मने
अनमित्रां छचीपतिः ।
सा नो भूमिर् वि सृजतां
माता पुत्राय नः पयः ॥