१५५

सर्वाष् टीकाः ...{Loading}...

०१ पार्थिवा दिव्याः पशव

विश्वास-प्रस्तुतिः ...{Loading}...

पार्थिवा दिव्याः पशव
आरण्या ग्राम्या च ये ।
अपक्षाः पक्षिणश् च ये
ते जाता ब्रह्मचारिणः ॥

०२ पृथक् सर्वे प्रजापत्याः

विश्वास-प्रस्तुतिः ...{Loading}...

पृथक् सर्वे प्रजापत्याः
प्राणाँ आत्मसु बिभ्रति ।
सर्वांस् तान् ब्रह्म रक्षति
ब्रह्मचारिण्य् आभृतम् ॥ +++(Bhatt. ābhṛtāṃ)+++

०३ ब्रह्मचारी ब्रह्म भ्राजद्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मचारी ब्रह्म भ्राजद् बिभर्ति
तस्मिन् देवा अधि विश्वे समेताः । +++(Bhatt. sametā(ḥ))+++
स स्नातो बभ्रुः पिङ्गलः +++(Bhatt. misprint brabhruḥ)+++
पृथिव्यां बहु रोचते ॥

०४ देवानाम् एतत् परिषूतम्

विश्वास-प्रस्तुतिः ...{Loading}...

देवानाम् एतत् परिषूतम् +++(Bhatt. pariṣutam)+++
अनभ्यारूढं चरति रोचमानम् ।
तस्मिन् सर्वे पशवस् तत्र यज्ञास्
तस्मिन्न् अन्नं सह देवताभिः ॥ +++(Bhatt. misprint tasinnaṃ)+++

०५ प्राणापानौ जनयन्न् आद्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणापानौ जनयन्न् आद् व्यानं
चक्षुः श्रोत्रं जनयन् ब्रह्म मेधाम् ।
वाचं श्रेष्ठां यशो अस्मासु धेह्य् ॥

०६ अन्नं रेतो लोहितम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्नं रेतो लोहितम् उदरं तानि कल्पन् । +++(Bhatt. kalpam)+++
ब्रह्मचारी सलिलस्य पृष्ठे
तपो ऽतिष्ठत् तप्यमानः समुद्रे ॥