१५४

सर्वाष् टीकाः ...{Loading}...

०१ अर्वाग् अन्यो दिवस्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वाग् अन्यो दिवस् पृष्ठाद्
इतो ऽन्यः पृथिव्या अग्नी +++(Bhatt. pṛthivyāgni)+++
समेतो नभसी अन्तरेमे ।
तयोः श्रयन्ते रश्मयो ऽधि दृढास् +++(Bhatt. tayo(ḥ))+++
तान् आ तिष्ठति तपसा ब्रह्मचारी ॥

०२ अभिक्रन्दन्न् अरुणः शितिङ्गो

विश्वास-प्रस्तुतिः ...{Loading}...

अभिक्रन्दन्न् अरुणः शितिङ्गो +++(Bhatt. abhikrandanvaruṇaḥ)+++
बृहच्छेपो ऽनु भूमौ जभार ।
ब्रह्मचारी सिञ्चति
सानौ रेतः पृथिव्यां
तेन जीवन्ति प्रदिशश् चतस्रः ॥

०३ पर्जन्यो मृत्युर् वरुणः

विश्वास-प्रस्तुतिः ...{Loading}...

पर्जन्यो मृत्युर् वरुणः
सोम ओषधयः पयः ।
जीमूता आसन् सत्वानस्
तैर् इदं स्वर् आभरन् ॥

०४ अग्नौ सूर्ये चन्द्रमसि

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नौ सूर्ये चन्द्रमसि
मातरिश्वनि ब्रह्मचार्य्
अप्सु समिधम् आ दधाति ।
तेषाम् अर्चींषि पृथग् अभ्रे चरन्ति
तेषाम् आज्यं पुरुषो वर्षम् अश्वः ॥

०५ अमा घृतं कृणुते

विश्वास-प्रस्तुतिः ...{Loading}...

अमा घृतं कृणुते केवलम्
आचार्यो भूत्वा वरुणो
यद्यद् ऐच्छत् प्रजापतौ ।
तद् ब्रह्मचारी प्रायच्छत्
स्वान् मित्रो अध्य् आत्मनः ॥

०६ आचार्यो ब्रह्मचारी ब्रह्मचारी

विश्वास-प्रस्तुतिः ...{Loading}...

आचार्यो ब्रह्मचारी
ब्रह्मचारी प्रजापतिः ।
प्रजापतिर् वि राजति
विराड् इन्द्रो ऽभवद् वशी ॥

०७ ब्रह्मचर्येण तपसा राजा

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मचर्येण तपसा
राजा राष्ट्रं वि रक्षते ।
आचार्यो ब्रह्मचर्येण
ब्रह्मचारिणम् इच्छते ॥

०८ ब्रह्मचर्येण कन्या युवानम्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मचर्येण कन्या
युवानं विन्दते पतिम् ।
अनड्वान् ब्रह्मचर्येण-
-अश्वो घासं जिगीर्षति ॥

०९ ब्रह्मचर्येण तपसा देवा

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मचर्येण तपसा
देवा मृत्युम् अपाजयन् ।
इन्द्रो ह ब्रह्मचर्येण-
-अमृतं स्वर् आभरत् ॥

१० ओषधयो भूता भव्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

ओषधयो भूता भव्यम्
अहोरात्रे वनस्पतयः ।
संवत्सरः सहर्तुभिस्
ते जाता ब्रह्मचारिणः ॥