सर्वाष् टीकाः ...{Loading}...
०१ ब्रह्मचारीष्णंश् चरति रोदसी
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मचारीष्णंश् चरति रोदसी उभे
यस्मिन् देवाः संमनसो भवन्ति ।
स दाधार पृथिवीं द्याम् उतामूं
स आचार्यं तपसा पिपर्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मचारीष्णंश् चरति रोदसी उभे
यस्मिन् देवाः संमनसो भवन्ति ।
स दाधार पृथिवीं द्याम् उतामूं
स आचार्यं तपसा पिपर्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ आचार्य उपनयमानो ब्रह्मचारिणम्
विश्वास-प्रस्तुतिः ...{Loading}...
आचार्य उपनयमानो ब्रह्मचारिणं
कृणुते गर्भम् अन्तः ।
तं रात्रीस् तिस्र उदरे बिभर्ति
तं जातं द्रष्टुम् अभिसंयन्ति देवाः ।
ब्रह्मचारिणं पितरो मनुष्या देवजना
गन्धर्वा एनम् अनु यन्ति सर्वे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आचार्य उपनयमानो ब्रह्मचारिणं
कृणुते गर्भम् अन्तः ।
तं रात्रीस् तिस्र उदरे बिभर्ति
तं जातं द्रष्टुम् अभिसंयन्ति देवाः ।
ब्रह्मचारिणं पितरो मनुष्या देवजना
गन्धर्वा एनम् अनु यन्ति सर्वे ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्रयस्त्रिंशतं त्रिशतान् षट्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयस्त्रिंशतं त्रिशतान् षट् सहस्रान्
सर्वान् स देवांस् तपसा पिपर्ति ।
इयं समित् पृथिवी द्यौर् द्वितीया-
-उतान्तरिक्षं समिधा पृणाति ।
ब्रह्मचारी समिधा मेखलावी
श्रमेण लोकांस् तपसा पिपर्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रयस्त्रिंशतं त्रिशतान् षट् सहस्रान्
सर्वान् स देवांस् तपसा पिपर्ति ।
इयं समित् पृथिवी द्यौर् द्वितीया-
-उतान्तरिक्षं समिधा पृणाति ।
ब्रह्मचारी समिधा मेखलावी
श्रमेण लोकांस् तपसा पिपर्ति ॥
सर्वाष् टीकाः ...{Loading}...
०४ पूर्वो जातो ब्रह्मणो
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्वो जातो ब्रह्मणो ब्रह्मचारी
घर्मं वसानस् तपसो ऽधि तिष्ठत् ।
तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं
देवाश् च सर्वे अमृतेन साकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूर्वो जातो ब्रह्मणो ब्रह्मचारी
घर्मं वसानस् तपसो ऽधि तिष्ठत् ।
तस्माज् जातं ब्राह्मणं ब्रह्म ज्येष्ठं
देवाश् च सर्वे अमृतेन साकम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ ब्रह्मचारी समिधा समिद्धः
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मचारी समिधा समिद्धः
कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
स सद्य एति पूर्वाद् अपरं समुद्रं
लोकान् संरभ्य मुहुर् आचरिक्रत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मचारी समिधा समिद्धः
कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
स सद्य एति पूर्वाद् अपरं समुद्रं
लोकान् संरभ्य मुहुर् आचरिक्रत् ॥
सर्वाष् टीकाः ...{Loading}...
०६ ब्रह्मचारी जनयन् ब्रह्म
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मचारी जनयन् ब्रह्म-
-अपो लोकं प्रजापतिं
परमेष्ठिणं विराजम् ।
गर्भो भूत्वामृतस्य योनाव्
इन्द्रो भूत्वासुरांस् ततर्ह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मचारी जनयन् ब्रह्म-
-अपो लोकं प्रजापतिं
परमेष्ठिणं विराजम् ।
गर्भो भूत्वामृतस्य योनाव्
इन्द्रो भूत्वासुरांस् ततर्ह ॥
सर्वाष् टीकाः ...{Loading}...
०७ इमां भूमीं पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमां भूमीं पृथिवीं ब्रह्मचारी
भिक्षां जभार प्रथमो दिवं च ।
ते ब्रह्म कृत्वा समिधा उपासते
तयोर् आर्पिता भुवनानि विश्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमां भूमीं पृथिवीं ब्रह्मचारी
भिक्षां जभार प्रथमो दिवं च ।
ते ब्रह्म कृत्वा समिधा उपासते
तयोर् आर्पिता भुवनानि विश्वा ॥
सर्वाष् टीकाः ...{Loading}...
०८ आचार्यस् ततक्ष नभसी
विश्वास-प्रस्तुतिः ...{Loading}...
आचार्यस् ततक्ष नभसी उभे (Bhatt. tadakṣa)
उर्वी गम्भीरे पृथिवीं दिवं च ।
ते ब्रह्मचारी तपसाभि रक्षति
तयोर् देवाः सधमादं मदन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
आचार्यस् ततक्ष नभसी उभे (Bhatt. tadakṣa)
उर्वी गम्भीरे पृथिवीं दिवं च ।
ते ब्रह्मचारी तपसाभि रक्षति
तयोर् देवाः सधमादं मदन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०९ अर्वाग् अन्यः परो
विश्वास-प्रस्तुतिः ...{Loading}...
अर्वाग् अन्यः परो अन्यो
गुहा निधी निहितौ ब्राह्मणस्य ।
तौ ब्रह्मचारी तपसाभि रक्षति
तत् केवलं कृणुते ब्रह्म विद्वान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अर्वाग् अन्यः परो अन्यो
गुहा निधी निहितौ ब्राह्मणस्य ।
तौ ब्रह्मचारी तपसाभि रक्षति
तत् केवलं कृणुते ब्रह्म विद्वान् ॥