सर्वाष् टीकाः ...{Loading}...
०१ यस्मिन् देवाः पितरो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मिन् देवाः पितरो मनुष्या
अरा नाभाव् इव श्रिताः ।
अपां त्वा पुष्पं पृच्छामि
यत्र तन् माययाहितम् ॥ (Bhatt. māyāhitam)
मूलम् ...{Loading}...
मूलम् (GR)
यस्मिन् देवाः पितरो मनुष्या
अरा नाभाव् इव श्रिताः ।
अपां त्वा पुष्पं पृच्छामि
यत्र तन् माययाहितम् ॥ (Bhatt. māyāhitam)
सर्वाष् टीकाः ...{Loading}...
०२ यत्रापां पुष्पं निहितम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रापां पुष्पं निहितं
माययातिहितं गुहा ।
यो वै तद् विद्यात् प्रत्यक्षं
स विद्याद् ब्राह्मणं महत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्रापां पुष्पं निहितं
माययातिहितं गुहा ।
यो वै तद् विद्यात् प्रत्यक्षं
स विद्याद् ब्राह्मणं महत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ मणिस् त्रिषूत्रो निहितः
विश्वास-प्रस्तुतिः ...{Loading}...
मणिस् त्रिषूत्रो निहितः स्वर्विद्
ऊर्ध्वस् तिर्यङ् विश एतु प्रजानन् ।
स पुमान् पुंसो जनयन्न् ऋतेन
सर्वान् अन्तान् गच्छतु सद्य एव ॥
मूलम् ...{Loading}...
मूलम् (GR)
मणिस् त्रिषूत्रो निहितः स्वर्विद्
ऊर्ध्वस् तिर्यङ् विश एतु प्रजानन् ।
स पुमान् पुंसो जनयन्न् ऋतेन
सर्वान् अन्तान् गच्छतु सद्य एव ॥
सर्वाष् टीकाः ...{Loading}...
०४ सर्वां रात्रीं सम्
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वां रात्रीं सम् ओषत्व्
आदित्यो जातवेदसा ।
अग्नेर् अधि दिवम् आ रोहन्न्
आयुषा सम् अनक्तु मा
वर्चसा सं सृजाति मा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वां रात्रीं सम् ओषत्व्
आदित्यो जातवेदसा ।
अग्नेर् अधि दिवम् आ रोहन्न्
आयुषा सम् अनक्तु मा
वर्चसा सं सृजाति मा ॥
सर्वाष् टीकाः ...{Loading}...
०५ घर्मः साहस्रः समिधा
विश्वास-प्रस्तुतिः ...{Loading}...
घर्मः साहस्रः समिधा समिद्धो
ऽसपत्नाः प्रदिशो मे कृणोतु ।
सपत्नान् सर्वान् मे सूर्यो
हन्तु वैश्वानरो हरिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
घर्मः साहस्रः समिधा समिद्धो
ऽसपत्नाः प्रदिशो मे कृणोतु ।
सपत्नान् सर्वान् मे सूर्यो
हन्तु वैश्वानरो हरिः ॥
सर्वाष् टीकाः ...{Loading}...
०६ घर्मस् तप्तः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
घर्मस् तप्तः प्र दहतु (Bhatt. tapta(ḥ))
भ्रातृव्यान् द्विषतो मम ।
आ दत्तां छत्रून् आदित्य
उद्यन् सूर्यः पृतन्यतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
घर्मस् तप्तः प्र दहतु (Bhatt. tapta(ḥ))
भ्रातृव्यान् द्विषतो मम ।
आ दत्तां छत्रून् आदित्य
उद्यन् सूर्यः पृतन्यतः ॥
सर्वाष् टीकाः ...{Loading}...
०७ वैश्वानरः प्र दहतु
विश्वास-प्रस्तुतिः ...{Loading}...
वैश्वानरः प्र दहतु
भ्रातृव्यान् द्विषतो वृषा ।
उद्यन् मे शुक्र आदित्यो
वि मृधो हन्तु सूर्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैश्वानरः प्र दहतु
भ्रातृव्यान् द्विषतो वृषा ।
उद्यन् मे शुक्र आदित्यो
वि मृधो हन्तु सूर्यः ॥
सर्वाष् टीकाः ...{Loading}...
०८ शुक्रं सुपर्णं हरि
विश्वास-प्रस्तुतिः ...{Loading}...
शुक्रं सुपर्णं हरि ब्रह्म
भ्राजद् अजस्रं ज्योतिर् दिवम् आ ततान ।
हरिः सुपर्णः प्रमथिष्णुर् आशुः
सपत्नान् हन्तु महाता वधेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुक्रं सुपर्णं हरि ब्रह्म
भ्राजद् अजस्रं ज्योतिर् दिवम् आ ततान ।
हरिः सुपर्णः प्रमथिष्णुर् आशुः
सपत्नान् हन्तु महाता वधेन ॥
सर्वाष् टीकाः ...{Loading}...
०९ हरिः सुपर्णः सुदिनो
विश्वास-प्रस्तुतिः ...{Loading}...
हरिः सुपर्णः सुदिनो ऽभयंकरो
हिरण्यवर्णो दुरुदाप आशुः ।
सपत्नान् सर्वान् मे सूर्य
आदित्यो हन्तु रश्मिभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हरिः सुपर्णः सुदिनो ऽभयंकरो
हिरण्यवर्णो दुरुदाप आशुः ।
सपत्नान् सर्वान् मे सूर्य
आदित्यो हन्तु रश्मिभिः ॥
सर्वाष् टीकाः ...{Loading}...
१० महान्तम् अर्थं परि
विश्वास-प्रस्तुतिः ...{Loading}...
महान्तम् अर्थं परि सद्य एत्व्
अहोरात्रे विदधच् छुक्र उद्यन् ।
सपत्नान् सर्वान् मे सूर्य
एतु वैश्वानरो दहन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
महान्तम् अर्थं परि सद्य एत्व्
अहोरात्रे विदधच् छुक्र उद्यन् ।
सपत्नान् सर्वान् मे सूर्य
एतु वैश्वानरो दहन् ॥
सर्वाष् टीकाः ...{Loading}...
११ उद्यन्न् अद्य मित्रमह
विश्वास-प्रस्तुतिः ...{Loading}...
उद्यन्न् अद्य मित्रमह इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद्यन्न् अद्य मित्रमह इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
१२ तेजस् तपांसि मुखतो
विश्वास-प्रस्तुतिः ...{Loading}...
तेजस् तपांसि मुखतो बिभर्ष्य्
आनन्दं भूतिं महसः प्रतिष्ठाम् ।
पर्यूहमाणः श्रियम् एषि सर्वतो
अमोघं सत्यं यश उद्यतं ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
तेजस् तपांसि मुखतो बिभर्ष्य्
आनन्दं भूतिं महसः प्रतिष्ठाम् ।
पर्यूहमाणः श्रियम् एषि सर्वतो
अमोघं सत्यं यश उद्यतं ते ॥