१५१

सर्वाष् टीकाः ...{Loading}...

०१ वैश्वानरः सं तपत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरः सं तपत्य् अन्तरिक्षं
दिवं च समिद्धो अग्निर् दिव्यस् तपोजाः ।
शिक्षन्त्व् अस्मा अभि सुन्वन्ति सोम
ऋतेन भ्राजन्न् अमृतं वस्ते अत्की ॥

०२ रारह्येते नेलयतः शीतरूरे

विश्वास-प्रस्तुतिः ...{Loading}...

रारह्येते नेलयतः
शीतरूरे तन्वाव् अस्य भीमे ।
रूपाण्य् एति बहुधा वसानो
गुहा कृण्वानस् तन्वः पराचीः ॥

०३ पञ्चारे चक्रे परिवर्तमाने

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चारे चक्रे परिवर्तमाने
समारोहन्ति भुवनानि विश्वा ।
तस्य नाक्षस् तप्यते भूरिभारः
सनाद् एव न छिद्यते सनाभिः ॥

०४ पञ्चभिस् तप्तस् तपत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चभिस् तप्तस् तपत्य् एष एतत्
सहस्रधामानम् अनु तिष्ठन्त्य् एनम् ।
सप्त त्वा सूर्य हरितो वहन्ति
ब्रह्मणादित्यस् त्रिवृता मुखेन ॥

०५ वि द्योतते द्योतत

विश्वास-प्रस्तुतिः ...{Loading}...

वि द्योतते द्योतत आ च द्योतते
अप्स्व् अन्तर् अमृतो घर्म उद्यन् ।
हन्ता वृत्रस्य हरिताम् अनीकम्
अनाधृष्टास् तन्वः सूर्यस्य ॥

०६ घर्मः पश्चाद् उत

विश्वास-प्रस्तुतिः ...{Loading}...

घर्मः पश्चाद् उत घर्मः पुरस्ताद्
अयोदंष्ट्राय द्विषतो ऽपि दध्मः ।
वैश्वानरः शीतरूरे वसानः
सपत्नान् मे द्विषतो हन्तु सर्वान् ॥

०७ ऋतून् ऋतुभिः श्रपयति

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतून् ऋतुभिः श्रपयति
ब्रह्मणैकवीरो घर्मः
शुचानः समिधा समिद्धः ।
ब्रह्मा त्वा तपति ब्रह्मणा तेजसा च ॥

०८ ब्रह्म जज्ञानं प्रथमम्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म जज्ञानं प्रथमं
समा ददे तज् जायमानं
न बिभिदे न भिद्यते ।
तद् अङ्गमानं पितरं व्याहति (Bhatt. ⟨ aṃhamānaṃ?)
तस्य नाड्य आतता विततास् तता उ ताः ॥

०९ असयज्जान सत आ

विश्वास-प्रस्तुतिः ...{Loading}...

असयज्जान सत आ जभार (Bhatt. ⟨ asajjajāna?)
य ईं जजान स इद् अस्य भर्ता ।
प्रजापतिः प्रजाभिः संविदानस्
त्रीणि ज्योतींषि दधते न पाकः ॥

१० प्रजापतिश् चरति गर्भे

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिश् चरति गर्भे अन्तः
स जायमानो बहुधा प्र जायते ।
तस्य पदम् अभि पश्यन्ति वेधसस्
तस्मिन्न् आर्पिता भुवनानि विश्वा ॥