१५०

सर्वाष् टीकाः ...{Loading}...

०१ ब्रह्म जज्ञानम् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म जज्ञानम् इत्य् एका ॥

०२ ब्रह्म भ्राजद् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म भ्राजद् उद् अगाद् अन्तरिक्षं
दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् ।
ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद्
ब्रह्मास्मद् अप हन्तु शमलं तमश् च ॥ +++(Bhatt. tapaś)+++

०३ प्रतीचीर् आयता स्तर

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीचीर् आयता स्तर
वितताः पश्यामहै । +++(Bhatt. ⟨ paśyāmahai?)+++
समुद्रे अप्सु या हिता-
-असुराणाम् अयस्मयी ॥

०४ हरिः सुपर्णो दिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

हरिः सुपर्णो दिवम् आरुहो ऽर्चिषा
ये त्वा दिप्सन्ति दिवम् उत्पतन्तम् ।
अव तां जहि हरसा जातवेदो
ऽबिभ्यद् उग्रो ह्य् अर्चिषा
दिवम् आ रोह सूर्य ॥

०५ अयोजाला असुरा मायिनो

विश्वास-प्रस्तुतिः ...{Loading}...

अयोजाला असुरा मायिनो ऽयस्मयैः
पाशैर् अङ्किनो ये चरन्ति ।
तांस् ते रन्धयामि हरसे जातवेदः
सहस्रभृष्टिः सपत्नान् प्रमृणन् याहि वज्रः ॥ +++(Bhatt. sahasrapṛṣṭhiḥ)+++

०६ देवानाम् अधिपा एति

विश्वास-प्रस्तुतिः ...{Loading}...

देवानाम् अधिपा एति घर्म
ऋतेन भ्राजन्न् अमृतं विचष्टे ।
हिरण्यवर्णो नभसो देव सूर्य
घर्मो भ्राजन् दिवो अन्तान् पर्य् एषि विद्युता ॥

०७ विद्योतन्ते विद्युतो अग्निजिह्वा

विश्वास-प्रस्तुतिः ...{Loading}...

विद्योतन्ते विद्युतो अग्निजिह्वा
हिरण्यवर्णा अमृता अप्स्व् अन्तः समुद्रे ।
रुद्रस्य क्षिप्नो स्तनयित्नोर् विद्युत् तस्य +++(Bhatt. vidyu)+++
वैश्वानारस्य हेतिः परि णो वृणक्तु ॥

०८ विद्युता भ्राजन् हृदयम्

विश्वास-प्रस्तुतिः ...{Loading}...

विद्युता भ्राजन् हृदयं यात्य् अग्निर्
व्याघ्रा अप्सुषदो यत्र भीमाः ।
विष्णोः क्रमै स्तनयन्न् एति रुद्रो
नुदं छत्रून् वि मृधो बाधमानो
ऽसपत्नाः प्रदिशो मे कृणोतु ॥

०९ अपो वसानः समैत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अपो वसानः समैत्य् अन्तरिक्षं
दिवं च समिद्धो अग्निर् दिव्यस् तपोधाः ।
वैश्वानरः शमया शीतरूरे
अपां सुपर्णो दिव एति पृष्ठे ॥

१० वैश्वानरः समुद्रं पर्य्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरः समुद्रं पर्य् एति शुक्रो
घर्मो भ्राजन् तेजसा रोचमाणः ।
नुदं छत्रून् प्रदहन् मे सपत्नान्
आदित्यो द्याम् अध्यरुक्षद् विपश्चित् ॥