१४९

सर्वाष् टीकाः ...{Loading}...

०१ यत् ते गुल्फयोर्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते गुल्फयोर् दौर्भाग्यं
पादयोर् अङ्गुलीर् अनु ।
(…) ॥ +++(see 16.147.1cd)+++

०२ ते परुषु दौर्भाग्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

(यत्) ते परुषु दौर्भाग्यं
मांसे अस्थिषु मज्जसु ।
(…) ॥ +++(see 16.147.1cd)+++

०३ यत् ते किम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते किं च दौर्भाग्यम्
अङ्गेअङ्गे प्रतिष्ठितं
यद् वा लोमसु विष्ठितम् ।
(…) ॥ +++(see 16.147.1cd)+++

०४ यत् ते अक्षेषु

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते अक्षेषु दौर्भाग्यं
प्रहायाम् अधिदेवने ।
(…) ॥ +++(see 16.147.1cd)+++

०५ यत् ते पशुषु

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते पशुषु दौर्भाग्यं
कृष्याम् अशनेर् हितम् ।
(…) ॥ +++(see 16.147.1cd)+++

०६ या ते लक्ष्मीर्

विश्वास-प्रस्तुतिः ...{Loading}...

या ते लक्ष्मीर् ब्रूणहत्या-
-अथो या ते अपुत्रता ।
(…) ॥ +++(see 16.147.1cd)+++

०७ यत् ते दिष्टम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते दिष्टं पितृषद्यम्
अथो या ते अपचिता ।
(…) ॥ +++(see 16.147.1cd)+++

०८ या ते का

विश्वास-प्रस्तुतिः ...{Loading}...

या ते का च पापी लक्ष्मीर्
अथो या ते अपशुता ।
अयं तद् विश्वभेषजो
अपामार्गो ऽप लुम्पतु ॥

०९ कण्ठदघ्नाम् अहिमार्त्तिनृणां देवेभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

कण्ठदघ्नाम् अहिमार्त्तिनृणां +++(Bhatt. ⟨ mārtimṛṇāṃ?)+++
देवेभ्यः किल्बिषं यद् बभूव ।
इमास् तद् आपः प्र वहन्तु रिप्रं
पुनातु मा शतधारं पवित्रम् ॥

१० स्नाहि रिप्रं शमलम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्नाहि रिप्रं शमलं च सर्वं
कृष्णे चेले सादयित्वा पापम् ।
हित्वावर्तिं निरृतिं मृत्युपाशान्
सूर्यं ज्योतिर् अभ्य् एह्य् अग्निम् ॥

११ उद्यन्तो अस्मान् महतः

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यन्तो अस्मान् महतः समुद्रान्
मुच्यमानो अंहसः पाप्मनश् च ।
पुनर् मनः पुनर् आयुर् न आगन्
मा मा दभन् पणयो यातुधानाः ॥

१२ अव रिप्रम् अनिक्ष्मह्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अव रिप्रम् अनिक्ष्मह्य्
अशस्तिम् अध्य् आत्मनः ।
वर्च आ धीयतां मयि
तेज आ धीयतां मयि ।
प्राणापानौ मा मा हासिष्टं
सर्वम् आयुर् अशीय ॥