१४६

सर्वाष् टीकाः ...{Loading}...

०१ छिन्ध्य् आ छिन्धि

विश्वास-प्रस्तुतिः ...{Loading}...

छिन्ध्य् आ छिन्धि प्र छिन्ध्य्
अपि क्षापय क्षापय ।
आददानम् आङ्गिरसि
ब्रह्मज्यम् उप दासय ॥

०२ वैश्वदेवी ह्य् उच्यसे

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वदेवी ह्य् उच्यसे
कृत्या कूल्बजाम् आवृता
ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥

०३ क्षुरपविर् मृत्युर् भूत्वापिधावितः

विश्वास-प्रस्तुतिः ...{Loading}...

क्षुरपविर् मृत्युर् भूत्वापिधावितः ।
आ दत्से जिनतां वर्च
इष्टं पूर्तं चाशिषः ॥

०४ आदाय जीतं जीताय

विश्वास-प्रस्तुतिः ...{Loading}...

आदाय जीतं जीताय
लोके ऽमुष्मिन् प्र यच्छसि । +++(Bhatt. yacchati)+++
अघ्न्ये पदवीर् भव ब्राह्मणस्याभिशस्त्या ॥ +++(Bhatt. padavī)+++

०५ मेनिः शरव्या भवाघाद्

विश्वास-प्रस्तुतिः ...{Loading}...

मेनिः शरव्या भवाघाद् अघविषा भव ।
अग्न्ह्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसः ॥

०६ त्वया प्रवृक्तं रजतम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया प्रवृक्तं रजतम्
अग्निर् दहतु दुष्कृतं
देवपीयुम् अराधसम् । +++(Bhatt. devapīyūm)+++
वृश्च प्र वृश्च छिन्धि प्र छिन्धि +++(Bhatt. 2x vṛścya)+++
कृन्त प्र कृन्त पिंश प्र पिंशौष सम् ओष दह प्र दह ।
ब्रह्मज्यं देव्य् अघ्न्य
आ मूलाद् अनु संदह ॥