१४५

सर्वाष् टीकाः ...{Loading}...

०१ तस्या आहननं कृत्या

विश्वास-प्रस्तुतिः ...{Loading}...

तस्या आहननं कृत्या मेनिर् आशसनं वलग ऊबध्यम्
अस्वगता परिह्वृता । +++(Bhatt. pariddnutā)+++
अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥

०२ सर्वास्याङ्गानि मूलानि वृश्चति

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वास्याङ्गानि मूलानि वृश्चति +++(Bhatt. vṛścyati)+++
छिनत्त्य् अस्य पितृबन्धून् परा भावयति मातृबन्धून् ।
विवाहां ज्ञातीन् सर्वान् अपि क्षापयति ब्रह्मगवी क्षत्रियस्यापुनर्दीयमाना ॥ +++(Bhatt. jñātīṃ sarvam)+++

०३ अवास्तुम् एनम् अस्वगम्

विश्वास-प्रस्तुतिः ...{Loading}...

अवास्तुम् एनम् अस्वगम् अप्रजसं करोत्य् +++(Bhatt. apratisaṃ)+++
अपरापरणो भवति क्षीयते । +++(Bhatt. aparāpariṇo)+++
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गाम् आदत्ते ॥

०४ क्षिप्रं वै तस्याहनने

विश्वास-प्रस्तुतिः ...{Loading}...

क्षिप्रं वै तस्याहनने
गृध्राः कुर्वत ऐलवम् ।
(…) तस्यादहनं
परि नृत्यन्ति केशिनीर्
आघ्नानाः पाणिनोरसि
कुर्वाणाः पापम् ऐलवम् ॥

०५ तस्य वास्तुषु गङ्गणम्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) तस्य वास्तुषु
गङ्गणं कुर्वते वृकाः ।
क्षिप्रं वै तस्य पृच्छन्ति
यत् तद् आसीद् इदं नु तात् ॥