१४४

सर्वाष् टीकाः ...{Loading}...

०१ वैरं विकृत्यमाना पौत्राद्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

वैरं विकृत्यमाना
पौत्राद्यं विभाज्यमाना
देवहेतिर् ह्रियमाणामतिर् हिता निरृतिर् निहिता । (Bhatt. hrīyamāṇāmatir)
पाप्माधिधीयमाना (Bhatt. pāpmānidhīyamānā)
पारुष्यम् अवधीयमानाप्रजस्ताविहिता ॥

०२ घर्मः पर्याधीयमाना वैश्वानरः

विश्वास-प्रस्तुतिः ...{Loading}...

घर्मः पर्याधीयमाना
वैश्वानरः परिहिता
विषं प्रयस्यन्ती तक्मा प्रयस्ता ।
मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥

०३ अघं पच्यमाना पराभूतिः

विश्वास-प्रस्तुतिः ...{Loading}...

अघं पच्यमाना पराभूतिः पक्वा ।
सुगुध्रियमाणाशीविष उद्धृतासंज्ञा गन्धेन ॥

०४ अभूतिर् उपह्रियमाणा पराभूतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अभूतिर् उपह्रियमाणा पराभूतिर् उपहृता ।
शर्वः क्रुद्धः पिश्यमाना (Bhatt. sarvaḥ … piṣyamāṇā)
शिमिदा पिशिता ॥

०५ आर्तिर् अश्यमाना वीकर्तो

विश्वास-प्रस्तुतिः ...{Loading}...

आर्तिर् अश्यमाना वीकर्तो अशिता । (Bhatt. asyamānā vīkartositā)
अशिता लोकाच् छिनत्ति ब्रह्मचारी ब्रह्मज्यम् अस्माच् चामुष्माच् च ॥ (Bhatt. asitā)