१४२

सर्वाष् टीकाः ...{Loading}...

०१ सैषा भीमा ब्रह्मगव्य्

विश्वास-प्रस्तुतिः ...{Loading}...

सैषा भीमा ब्रह्मगव्य् अघविषा
कृत्या कूल्बजम् आवृता +++(Bhatt. kulvajam ābhṛtā)+++
सर्वाण्य् अस्यां क्रूराणि सर्वे च मृत्यवः
सर्वाण्य् अस्यां घोराणि सर्वे च पुरुषवधाः ॥

०२ सा ब्रह्मज्यं ब्रह्मगव्य्

विश्वास-प्रस्तुतिः ...{Loading}...

सा ब्रह्मज्यं ब्रह्मगव्य् आदीयमाना
मृत्योः पड्वीश आ द्यति ।
मेनिः शतवधा हि सा
ब्रह्मज्यस्य क्षितिर् हि सा ॥

०३ तस्माद् वै ब्राह्मणानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्माद् वै ब्राह्मणानां गौर्
दुराधर्षा विजानता ।
वैश्वानर उद्वीता +++(Bhatt. udgīthā)+++
महादेवो ऽपेक्षमाणा
वज्रो धावन्ती +++(Bhatt. dhāvanti)+++
हेतिः शफान् उत्खिदन्ती ॥

०४ क्षुरपविर् ईक्षमाणा मृत्युर्

विश्वास-प्रस्तुतिः ...{Loading}...

क्षुरपविर् ईक्षमाणा
मृत्युर् हिङ्कृण्वती ।
वाश्यमानाभि स्फूर्जति +++(Bhatt. vāśyamānāvi)+++
ब्रह्मगवी ब्रह्मज्यम् ॥