सर्वाष् टीकाः ...{Loading}...
०१ श्रमेण तपसा सृष्टा
विश्वास-प्रस्तुतिः ...{Loading}...
श्रमेण तपसा सृष्टा
ब्रह्मणा वित्तर्ते श्रिता ।
सत्येनावृता श्रिया प्रावृता यशसा परिवृता स्वधया
परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता
यज्ञे प्रतिष्ठिता लोको निधनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्रमेण तपसा सृष्टा
ब्रह्मणा वित्तर्ते श्रिता ।
सत्येनावृता श्रिया प्रावृता यशसा परिवृता स्वधया
परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता
यज्ञे प्रतिष्ठिता लोको निधनम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ छन्दांसि रूपम् अङ्गिरसः
विश्वास-प्रस्तुतिः ...{Loading}...
छन्दांसि रूपम् अङ्गिरसः
सन्तापा ब्रह्म पदवा-
-अयं ब्राह्मणो ऽधिपतिः ।
ताम् आददानस्य ब्रह्मगवीं
जिनतो ब्राह्मणं क्षत्रियस्य ।
अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
छन्दांसि रूपम् अङ्गिरसः
सन्तापा ब्रह्म पदवा-
-अयं ब्राह्मणो ऽधिपतिः ।
ताम् आददानस्य ब्रह्मगवीं
जिनतो ब्राह्मणं क्षत्रियस्य ।
अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मीः ॥