१३९

सर्वाष् टीकाः ...{Loading}...

०१ प्रजापतिश् च परमेष्ठी

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिश् च परमेष्ठी च शृङ्गे इन्द्रः शिरो
अग्निर् ललाटं यमः कृकाटं सोमो राजा मस्तिष्कः ।
सत्यं चक्षुर् ऋतं श्रोत्रे प्राणापानौ नासिके (Bhatt. cakṣu)
द्यौर् उत्तरा हनुः पृथिव्य् अधरा ॥

०२ अग्निर् आस्यं विद्युज्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् आस्यं विद्युज् जिह्वा
मरुतो दन्ताः पवमानः प्राणः ।
विश्वं वायुः कण्ठः स्वर्गो लोकः
कृष्णद्रं विधरणी विकेश्यः ॥

०३ रेवती ग्रीवाः कृत्तिका

विश्वास-प्रस्तुतिः ...{Loading}...

रेवती ग्रीवाः कृत्तिका स्कन्धा
घर्मो वहः श्येनः क्रोडो अन्तरिक्षं पाजस्यम् ।
मित्रश् च वरुणश् चांसौ
त्वष्टा चार्यमा च दोषणी ॥

०४ महादेवो बाहू बृहस्पतिः

विश्वास-प्रस्तुतिः ...{Loading}...

महादेवो बाहू बृहस्पतिः ककुद् बृहतीः कीकसाः ।
देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥

०५ इन्द्राणी भसद् वातः

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राणी भसद् वातः पुच्छं पवमानो बालाः ।
ब्रह्म च क्षत्रं च श्रोणी बलम् ऊरू
धाता च सविता चाष्ठीवन्तौ ॥

०६ जङ्घा गन्धर्वा अप्सरसः

विश्वास-प्रस्तुतिः ...{Loading}...

जङ्घा गन्धर्वा अप्सरसः (Bhatt. (a)psarasaḥ)
कुष्ठिका अदितिः शफाः ।
चेतो हृदयं यकृन् मेधा
हरिमा पित्तं व्रतं पुरीतत् ॥

०७ क्षुत् कुक्षिर् इरा

विश्वास-प्रस्तुतिः ...{Loading}...

क्षुत् कुक्षिर् इरा वनिष्ठुः (Bhatt. kṣuta)
पर्वताः प्लाशिर् देवजना गुदा
मनुष्या आन्त्राण्य् अत्रा उदरम्
इतरजना ऊबध्यं रक्षांसि लोहितम् ।
क्रोधो वृक्कौ मन्युर् आण्डौ प्रजा शेपः ॥

०८ समुद्रो वस्तिर् नदी

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रो वस्तिर् नदी सूत्री
स्तनयित्नुर् ऊधो वर्षस्य पतय स्तनाः ।
विश्वव्यचाश् चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥

०९ अभ्रं पीवो मज्जा

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्रं पीवो मज्जा निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥

१० इन्द्रः प्राङ् तिष्ठन्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः प्राङ् तिष्ठन् दक्षिणा तिष्ठन् यमः
प्रत्यङ् तिष्ठन् धातोदङ् तिष्ठन् सविता ।
तृणानि प्राप्तः सोमो राजावृत्त आनन्दः । (Bhatt. rājāvṛtrahānandaḥ)
ईक्षमानो मित्रे युज्यमानो वैश्वदेवो युक्तः प्रजापतिर् विमुक्तः सर्वम् ।
एतद् वै गोरूपम् ।
उपैनं रूपवन्तः पशवस् तिष्ठन्ति य एवं वेद ॥ (Bhatt. rūpaṃvantaḥ)