१३७

सर्वाष् टीकाः ...{Loading}...

०१ घृतं प्रोक्षन्ती सुभगा

विश्वास-प्रस्तुतिः ...{Loading}...

घृतं प्रोक्षन्ती सुभगा
देवान् देवी गमिष्यति ।
पक्तारम् अघ्न्ये मा हिंसीर्
दिवं प्रेहि शतौदने ॥

०२ ये पितरो दिविषदो

विश्वास-प्रस्तुतिः ...{Loading}...

ये पितरो दिविषदो ऽन्तरिक्षसदश् च
ये चेमे भूम्याम् अधि ।
तेभ्यस् त्वं धुक्ष्व सर्वदा +++(Bhatt. dhukṣa(kṣva?))+++
क्षीरं सर्पिर् अथो मधु ॥

०३ यत् ते शिरो

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते शिरो ये च शृङ्गे
यौ कर्णौ यौ च ते अक्ष्यौ ।
आमिक्षां दुह्रतां दात्रे
क्षीरं सर्पिर् अथो मधु ॥

०४ यत् ते मुखम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते मुखं या जिह्वा
ये दन्ता ये च ते हनू ।
(…) ॥ +++(see 3cd)+++

०५ यत् ते क्लोमा

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते क्लोमा यद् धृदयं
पुरीतत् सहकण्ठिका ।
(…) ॥ +++(see 3cd)+++

०६ यत् ते यकृद्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते यकृद् ये मतस्ने
आन्त्राणि याश् च ते गुदाः । +++(Bhatt. gudā)+++
(…) ॥ +++(see 3cd)+++

०७ यस् ते प्लाशिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते प्लाशिर् यो वनिष्टुर्
यौ कुक्षी यच् च त उदरम् ।
(…) ॥ +++(see 3cd)+++

०८ यस् ते मज्जा

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते मज्जा यान्य् अस्थीनि
यन् मांसं यच् च लोहितम् ।
(…) ॥ +++(see 3cd)+++

०९ यौ ते बाहू

विश्वास-प्रस्तुतिः ...{Loading}...

यौ ते बाहू यौ ते अंसौ
दोषणी या च ते ककुत् ।
(…) ॥ +++(see 3cd)+++

१० ये ते स्कन्धा

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते स्कन्धा या ग्रीवा +++(Bhatt. yatte)+++
याः पृष्टीर् याश् च पर्शवः ।
(…) ॥ +++(see 3cd)+++