१३५

सर्वाष् टीकाः ...{Loading}...

०१ सोद् अक्रामत् सासुरान्

विश्वास-प्रस्तुतिः ...{Loading}...

सोद् अक्रामत् सासुरान् आगच्छत्
ताम् असुरा उपाह्वयन्त माय एहीति ।
तस्या विरोचनः प्राह्रादुर् वत्स आसीद् अयस्पात्रं पात्रम् ।
तां द्विमूर्धार्त्वियो ऽधोक् तां मायाम् अधोक् ।
तां मायाम् असुरा उप जीवन्त्य्
उपजीवनीयो भवति य एवं वेद ॥

०२ सा पितॄन् आगच्छत्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सा पितॄन् आगच्छत् (see 1a)
तां पितर उपाह्वयन्त स्वध एहीति ।
तस्या यमो वैवस्वतो वत्स आसीद् रजतपात्रं पात्रम् ।
ताम् अन्तको मार्तयो ऽधोक् तां स्वधाम् अधोक् ।
तां स्वधां पितर उप (…) ॥ (see 1ef)

०३ सा मनुष्यान् आगच्छत्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सा मनुष्यान् आगच्छत् (see 1a)
तां मनुष्या उपाह्वयन्तेरावत्य् एहीति ।
तस्या मनुर् वैवस्वतो वत्स आसीत् पृथिवीपात्रं पात्रम् ।
तां पृथुर् वैन्यो ऽधोक् तां कृषिं च सस्यं चाधोक् ।
तां कृषिं च सस्यं च मनुष्य उप (…) ॥ (see 1ef)

०४ सा देवान् आगच्छत्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सा देवान् आगच्छत् (see 1a)
तां देवा उपाह्वयन्तोर्ज एहीति ।
तस्या इन्द्रो वत्स आसीद् दारुपात्रं पात्रम् ।
तां सविताधोक् ताम् ऊर्जम् अधोक् ।
ताम् ऊर्जं देवा उप (…) ॥ (see 1ef)

०५ सा सप्त ऋषीन्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सा सप्त ऋषीन् आगच्छत् (see 1a)
तां सप्त ऋषय उपाह्वयन्त ब्रह्मण्वत्य् एहीति ।
तस्याः सोमो वत्स आसीच् छन्दःपात्रं पात्रम् ।
तां बृहस्पतिर् आङ्गिरसो ऽधोक् तां ब्रह्म च तपश् चाधोक् ।
तद् ब्रह्म च तपश् च सप्त ऋषय उप (…) ॥ (see 1ef)

०६ सा गन्धर्वाप्सरस आगच्छत्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सा गन्धर्वाप्सरस आगच्छत् (see 1a)
तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।
तस्याश् चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम् ।
तां वसुरुचिः सौर्यवर्चसो ऽधोक् तां पुण्यं गन्धम् अधोक् ।
तं पुण्यं गन्धं गन्धर्वाप्सरसा उप (…) ॥ (see 1ef)

०७ सा पुण्यजनान् आगच्छत्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सा पुण्यजनान् आगच्छत् (see 1a)
तां पुण्यजना उपाह्वयन्त तिरोध एहीति ।
तस्याः कुबेरो वैश्रवणो वत्स आसीद् आमपात्रं पात्रम् ।
तां रजतनाभिः काबेरको ऽधोक् तां तिरोधाम् अधोक् ।
तां तिरोधां पुण्यजना उप (…) ॥ (see 1ef)

०८ सोद् अक्रामत् सा

विश्वास-प्रस्तुतिः ...{Loading}...

सोद् अक्रामत् सा सर्पान् आगच्छत्
तां सर्पा उपाह्वयन्त विषवत्य् एहीति ।
तस्यास् तक्षको वैशालेयो वत्स आसीद् अलाबुपात्रं पात्रम् ।
तां धृतराष्ट्र ऐरावतो ऽधोक् तां विषम् अधोक् ।
तद् विषं सर्पा उप जीवन्त्य्
उपजीवनीयो भवति य एवं वेद ॥

०९ तस्माद् यस्मा अलाबुनाभिषिञ्चेन्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्माद् यस्मा अलाबुनाभिषिञ्चेन् (Bhatt. yasmādalābunā)
मनसा त्वा प्रत्याहन्मीत्य् एनं प्रत्याहन्यात् ।
यत् प्रत्याहन्ति विषं प्रत्याहन्ति
न च प्रत्याहन्ति विषम् अनु प्रसिच्यते ।
विषम् अस्याप्रियं भ्रातृव्यं हन्ति य एवं वेद ॥