सर्वाष् टीकाः ...{Loading}...
०१ सा वनस्पतीन् आगच्छत्
विश्वास-प्रस्तुतिः ...{Loading}...
(सोद् अक्रामत्) सा वनस्पतीन् आगच्छत्
तां वनस्पतयो ऽघ्नत
सा संवत्सरे सम् अभवत् ।
तस्मात् संवत्सरे वनस्पतीनां वृक्णम् अपि रोहति
वृश्च्यन्त्य् अस्याप्रियं भ्रातृव्यं य (एवं वेद) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(सोद् अक्रामत्) सा वनस्पतीन् आगच्छत्
तां वनस्पतयो ऽघ्नत
सा संवत्सरे सम् अभवत् ।
तस्मात् संवत्सरे वनस्पतीनां वृक्णम् अपि रोहति
वृश्च्यन्त्य् अस्याप्रियं भ्रातृव्यं य (एवं वेद) ॥
सर्वाष् टीकाः ...{Loading}...
०२ सा पितॄन् आगच्छत्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सा पितॄन् आगच्छत्
तां पितरो ऽघ्नत
सा मासे सम् अभवत् ।
तस्मान् मासे पितृभ्यो ददति
स्वधावान् पितृषु भवति प्र पितृयाणं पन्थां जानाति यः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सा पितॄन् आगच्छत्
तां पितरो ऽघ्नत
सा मासे सम् अभवत् ।
तस्मान् मासे पितृभ्यो ददति
स्वधावान् पितृषु भवति प्र पितृयाणं पन्थां जानाति यः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ सा देवान् आगच्छत्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सा देवान् आगच्छत्
तां देवा अघ्नत (Bhatt. ghnata)
सार्धमासे सम् अभवत् ।
तस्माद् अर्धमासे देवेभ्यो जुह्वति
जुहोत्य् अग्निहोत्रं प्र देवयानं पन्थां जानाति यः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सा देवान् आगच्छत्
तां देवा अघ्नत (Bhatt. ghnata)
सार्धमासे सम् अभवत् ।
तस्माद् अर्धमासे देवेभ्यो जुह्वति
जुहोत्य् अग्निहोत्रं प्र देवयानं पन्थां जानाति यः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ सा मनुष्यान् आगच्छत्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) सा मनुष्यान् आगच्छत्
तां मनुष्या अघ्नत (Bhatt. ghnata)
सा सद्यः सम् अभवत् ।
तस्माद् उभयद्युर् मनुष्या उप हरन्त्य्
उपास्य गृहे हरन्ति यः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) सा मनुष्यान् आगच्छत्
तां मनुष्या अघ्नत (Bhatt. ghnata)
सा सद्यः सम् अभवत् ।
तस्माद् उभयद्युर् मनुष्या उप हरन्त्य्
उपास्य गृहे हरन्ति यः (…) ॥