सर्वाष् टीकाः ...{Loading}...
०१ अगमं स्वर् अगमम्
विश्वास-प्रस्तुतिः ...{Loading}...
अगमं स्वर् अगमं ज्योतिर्
अभ्य् अष्ठां विश्वाः पृतना अरातीः ।
यो +ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अगमं स्वर् अगमं ज्योतिर्
अभ्य् अष्ठां विश्वाः पृतना अरातीः ।
यो +ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥
सर्वाष् टीकाः ...{Loading}...
०२ सूर्यस्यावृतम् अन्व् आवर्ते
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यस्यावृतम् अन्व् आवर्ते दक्षिणाम् अन्व् आवृतम् ।
दिशो ज्योतिष्मतीर् अभि पर्यावर्ते
सप्त ऋषीन् अभि पर्यावर्ते
ब्रह्माभि पर्यावर्ते
ब्राह्मणान् अभि पर्यावर्ते ।
ते मे द्रविणं यच्छन्तु
ते मे ब्राह्मणवर्चसम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यस्यावृतम् अन्व् आवर्ते दक्षिणाम् अन्व् आवृतम् ।
दिशो ज्योतिष्मतीर् अभि पर्यावर्ते
सप्त ऋषीन् अभि पर्यावर्ते
ब्रह्माभि पर्यावर्ते
ब्राह्मणान् अभि पर्यावर्ते ।
ते मे द्रविणं यच्छन्तु
ते मे ब्राह्मणवर्चसम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् ते ऽन्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते ऽन्नं भुवस्पत
आक्षियति पृथिवीम् अनु । (Bhatt. ākṣayatu)
तस्य नस् त्वं भुवस्पते
संप्रयच्छ प्रजापते ।
यं वयं मृगयामहे
तं वधै स्तृणवामहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते ऽन्नं भुवस्पत
आक्षियति पृथिवीम् अनु । (Bhatt. ākṣayatu)
तस्य नस् त्वं भुवस्पते
संप्रयच्छ प्रजापते ।
यं वयं मृगयामहे
तं वधै स्तृणवामहि ॥
सर्वाष् टीकाः ...{Loading}...
०४ व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम
विश्वास-प्रस्तुतिः ...{Loading}...
व्यात्ते परमेष्ठिनो
ब्रह्मणापीपदाम तम् । (Bhatt. brahmaṇāpīpadāmṛ)
वैश्वानरस्य दंष्ट्राभ्यां
मृत्युस् तं समधाद् अभि ॥ (Bhatt. ibhiḥ)
मूलम् ...{Loading}...
मूलम् (GR)
व्यात्ते परमेष्ठिनो
ब्रह्मणापीपदाम तम् । (Bhatt. brahmaṇāpīpadāmṛ)
वैश्वानरस्य दंष्ट्राभ्यां
मृत्युस् तं समधाद् अभि ॥ (Bhatt. ibhiḥ)
सर्वाष् टीकाः ...{Loading}...
०५ इयं तं प्सात्व्
विश्वास-प्रस्तुतिः ...{Loading}...
इयं तं प्सात्व् आहुतिः
समिद् देवी सहीयसी ।
राज्ञो वरुणस्य बन्धो ऽसि
सो *ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् अन्ने प्राणे बधान ॥ (Bhatt. somam)
मूलम् ...{Loading}...
मूलम् (GR)
इयं तं प्सात्व् आहुतिः
समिद् देवी सहीयसी ।
राज्ञो वरुणस्य बन्धो ऽसि
सो *ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् अन्ने प्राणे बधान ॥ (Bhatt. somam)
सर्वाष् टीकाः ...{Loading}...
०६ अपाम् अस्मै वज्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपाम् अस्मै वज्रं प्र हरामि
चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।
सो अस्य पर्वा प्र शृणातु सर्वा
तन् मे देवा ह्य् अनु जानन्तु विश्वे ॥ (Bhatt. anu mā jānantu)
मूलम् ...{Loading}...
मूलम् (GR)
अपाम् अस्मै वज्रं प्र हरामि
चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।
सो अस्य पर्वा प्र शृणातु सर्वा
तन् मे देवा ह्य् अनु जानन्तु विश्वे ॥ (Bhatt. anu mā jānantu)
सर्वाष् टीकाः ...{Loading}...
०७ यद् अग्ने तपसा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अग्ने तपसा तप
उप प्रेक्षामहे वयम् ।
प्रियाः श्रुतस्य भूयास्म- (Bhatt. priyā)
-आयुष्मन्तः सुमेधसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अग्ने तपसा तप
उप प्रेक्षामहे वयम् ।
प्रियाः श्रुतस्य भूयास्म- (Bhatt. priyā)
-आयुष्मन्तः सुमेधसः ॥