१३१

सर्वाष् टीकाः ...{Loading}...

०१ विष्णोः क्रमो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णोः क्रमो ऽसि सपत्नहा
पृथिवीसंशितो ऽग्नितेजाः ।
पृथिवीम् अनु वि क्रमे ऽहं
पृथिव्यास् तं निर् भजामो
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
पूर्वजान् सपत्नान् अवैनान् बाधे अत्य् एनान् क्रमाम्य्
अपाङ् अपनुत्तः सपत्नः ॥

०२ विष्णोः क्रमो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णोः क्रमो ऽसि सपत्नहा-
-अन्तरिक्षसंशितो वायुतेजाः ।
अन्तरिक्षम् अनु वि क्रमे ऽहम्
अन्तरिक्षात् तं निर् भजामो
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
सहजान् सपत्नान् (…) ॥ +++(see 1fg)+++

०३ विष्णोः क्रमो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णोः क्रमो ऽसि सपत्नहा
द्युसंशितः सूर्यतेजाः ।
दिवम् अनु वि क्रमे ऽहं
दिवस् तं निर् भजामो
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
अपरजान् सपत्नान् (…) ॥ +++(see 1fg)+++

०४ सपत्नहा दिक्संशितो वाततेजाः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सपत्नहा +++(see 1a)+++
दिक्संशितो वाततेजाः ।
दिशो अनु वि क्रमे ऽहं
दिग्भ्यस् तम् (…) ॥ +++(see 1defg)+++

०५ सपत्नहा आशासंसितो मनस्तेजाः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सपत्नहा- +++(see 1a)+++
-आशासंसितो मनस्तेजाः ।
आशा अनु वि क्रमे ऽहम्
आशाभ्यस् तम् (…) ॥ +++(see 1defg)+++

०६ सपत्नहा अप्संसितो वरुणतेजाः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सपत्नहा- +++(see 1a)+++
-अप्संसितो वरुणतेजाः ।
अपो अनु वि क्रमे ऽहम्
अद्भ्यस् तम् (…) ॥ +++(see 1defg)+++

०७ सपत्नहा ऋक्संशितः सामतेजाः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सपत्नहा +++(see 1a)+++
ऋक्संशितः सामतेजाः ।
ऋचो अनु वि क्रमे ऽहं
ऋग्भ्यस् तम् (…) ॥ +++(see 1defg)+++

०८ सपत्नहा यज्ञसंशितो ब्रह्मतेजाः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सपत्नहा +++(see 1a)+++
यज्ञसंशितो ब्रह्मतेजाः ।
यज्ञम् अनु वि क्रमे ऽहं
यज्ञात् तम् (…) ॥ +++(see 1defg)+++

०९ सपत्नहा ओषधीसंशितः सोमतेजाः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सपत्नहा- +++(see 1a)+++
-ओषधीसंशितः सोमतेजाः ।
ओषधीर् अनु वि क्रमे ऽहम्
ओषधीभ्यस् तम् (…) ॥ +++(see 1defg)+++

१० सपत्नहा कृषिसंशितः पुरुषतेजाः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) सपत्नहा +++(see 1a)+++
कृषिसंशितः पुरुषतेजाः ।
कृषिम् अनु वि क्रमे ऽहं
कृष्यास् तम् (…) ॥ +++(see 1defg)+++

११ विष्णोः क्रमो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णोः क्रमो ऽसि सपत्नहा
प्राणसंशितो ऽन्नतेजाः ।
प्राणम् अनु वि क्रमे ऽहं
प्राणात् तं निर्भजामो
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥