१२९

सर्वाष् टीकाः ...{Loading}...

०१ यो व आपो

विश्वास-प्रस्तुतिः ...{Loading}...

यो व आपो अपां भागो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (Bhatt. om. ‘psv antar)
इदं तम् अति सृजामि तं माभ्य् अव निक्षि ।
तेन तम् अभ्य् अति सृजामि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ (Bhatt. stviṣīyānena)

०२ अपाम् ऊर्मिर् अप्स्व्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अपाम् ऊर्मिर् अप्स्व् अन्तर् यजुष्यः (…) ॥ (see stanza 1; Bhatt. mūrmuryajuṣyo)

०३ अपां वेगः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अपां वेगः (…) ॥ (see stanza 1)

०४ अपां बिन्दुः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अपां बिन्दुः (…) ॥ (see stanza 1)

०५ अपां गर्भः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अपां गर्भः (…) ॥ (see stanza 1)

०६ अपां वत्सः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अपां वत्सः (…) ॥ (see stanza 1)

०७ अपां वृषभः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अपां वृषभः (…) ॥ (see stanza 1)

०८ अपाम् अश्मा पृश्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अपाम् अश्मा पृश्निर् दिव्यो ऽप्स्व् अन्तर् यजुष्यः (…) ॥ (see stanza 1)

०९ यो व आपो

विश्वास-प्रस्तुतिः ...{Loading}...

यो व आपो अपां हिरण्यगर्भो ऽप्स्व् अन्तर् यजुष्यो देवयजनः । (Bhatt. om. apāṃ)
इदं तम् अति सृजामि तं माभ्य् अव निक्षि ।
तेन तम् (…) ॥ (see 1cde)

१० ये व आपो

विश्वास-प्रस्तुतिः ...{Loading}...

ये व आपो अपाम् अग्नयो ऽप्स्व् अन्तर् यजुष्या देवयजनाः । (Bhatt. yo)
इदं तान् अति सृजामि तान् माभ्य् अव निक्षि ।
तैस् तम् अभ्य् अति सृजामि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्त्विषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥