१२६

सर्वाष् टीकाः ...{Loading}...

०१ यत् प्राशिष्यन् पुरस्ताद्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्राशिष्यन् पुरस्ताद् अतिमृशति ।
प्राङ् प्रतिग्रहीतुः प्राणः प्र क्रामति
तत एवोत्थाय प्र व्रजति
शिरस् तस्य रुजतीति द्वादशीन् नाति जीवत्य्
एवं चैनं प्राश्नन्तम् उपद्रष्टा गृह्णाति ॥

०२ यत् प्राशिष्यन् दक्षिणतः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्राशिष्यन् दक्षिणतः प्रमृशति ।
दक्षिणा प्रतिग्रहीतुः (…) ॥ +++(see stanza 1)+++

०३ यत् प्राशिष्यन्न् उत्तरतः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्राशिष्यन्न् उत्तरतः परिमृशत्य्
उदङ् प्रतिग्रहीतुः प्राणः प्र क्रामति
तत एवोत्थाय प्र व्रजति
शिरस् तस्य रुजतीति द्वादशीन् नाति जीवत्य्
एवं चैनं प्राश्नन्तम् उपद्रष्टा गृह्णाति ॥

०४ यत् प्राशिष्यन् पश्चात्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्राशिष्यन् पश्चात् प्राञ्चम् अभिमृशति ।
शर्मणा चैवैनं तद् वर्मणा चाभि मृशति
शर्म चैवास्मै वर्म च भवति
जयत्य् ओदनम् ओदनलोको भवति य एवं वेद ॥