१२५

सर्वाष् टीकाः ...{Loading}...

०१ यत् क्षीरम् उपसिच्य

विश्वास-प्रस्तुतिः ...{Loading}...

यत् क्षीरम् उपसिच्य प्रथमं प्राश्नाति किलासः
प्रतिग्रहीता भवति ॥

०२ यत् सर्पिर् उपसिच्य

विश्वास-प्रस्तुतिः ...{Loading}...

यत् सर्पिर् उपसिच्य प्रथमं प्राश्नाति सर्पः
प्रतिग्रहीतारं हन्ति ॥

०३ यन् मधूपसिच्य प्रथमम्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मधूपसिच्य प्रथमं प्राश्नाति महादेवः
प्रतिग्रहीतारं हन्ति ॥

०४ यन् मांसम् उपसिच्य

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मांसम् उपसिच्य प्रथमं प्राश्नातीशानः
प्रतिग्रहीतारं हन्ति ॥

०५ यद् उदकम् उपसिच्य

विश्वास-प्रस्तुतिः ...{Loading}...

यद् उदकम् उपसिच्य प्रथमं प्राश्नाति तत् समृद्धम् ।
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद ॥