१२३

सर्वाष् टीकाः ...{Loading}...

०१ यत् पुरस्तात् पात्रस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पुरस्तात् पात्रस्य त्सरुं करोत्य्
अर्शः प्रतिग्रहीतुर् मुखे जायते ॥

०२ यद् दक्षिणतः पात्रस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यद् दक्षिणतः पात्रस्य त्सरुं करोति
यमाय च पितृभ्यश् चा वृश्चते ॥

०३ यत् पश्चात् पात्रस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पश्चात् पात्रस्य त्सरुं करोति
प्रतीची प्रतिग्रहीतारं शरव्य र्च्छति ॥

०४ यद् उत्तरतः पात्रस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यद् उत्तरतः पात्रस्य त्सरुं करोति
सोमाय च राज्ञे सप्तऋषिभ्यश् चा वृश्चते ॥