११९

सर्वाष् टीकाः ...{Loading}...

०१ यं कामयेत पापीयान्

विश्वास-प्रस्तुतिः ...{Loading}...

यं कामयेत पापीयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन स्याद् इति ।
तस्यैवं निर् वपेत्
तस्यैवं निरुप्यैवम् एवानु निर्वपेत् ।
तदैव स पापीयान् आत्मना पशुभिर् गृहैर् धनेन भवति-
इदमिदं कुर्यात् सा प्रायश्चीतिः ॥

०२ यं कामयेत न

विश्वास-प्रस्तुतिः ...{Loading}...

यं कामयेत न वसीयान् न श्रेयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन स्याद् इति ।
तस्यैवं निर् वपेत्
तस्यैवं निरुपयैवम् एवानु निर्वपेत् ।
तदैव स न वसीयान् न श्रेयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन भवति-
इदमिदं कुर्यात् स प्रायश्चित्तिः ॥

०३ यं कामयेत वसीयाञ्

विश्वास-प्रस्तुतिः ...{Loading}...

यं कामयेत वसीयाञ् छ्रेयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन स्याद् इति ।
तस्यैवं निर् वपेत्
तस्यैवं निरुप्यैवम् एवानु निर्वपेत् ।
तदैव स वसीयाञ् छ्रेयान् आत्मना प्रजया पशुभिर् गृहैर् धनेन भवति-
इदमिदं कुर्यात् सा प्रायश्चित्तिः ॥