११६

सर्वाष् टीकाः ...{Loading}...

०१ एते वै प्रियाश्

विश्वास-प्रस्तुतिः ...{Loading}...

एते वै प्रियाश् चाप्रियाश् च र्त्विजः
स्वर्गं लोकं गमयन्ति यद् अतिथयः ॥

०२ यत् क्षत्तारं ह्वयत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् क्षत्तारं ह्वयत्य् आ श्रावयति
यत् प्रतिशृणोति प्रत्य् आ श्रावयति ॥

०३ यत् परिवेष्टार आवसथान्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् परिवेष्टार आवसथान् प्रपद्यन्ते +++(Bhatt. āvasathāṃ)+++
चमसाध्वर्यव एव ते
तेषां नैकश् चनाहोता ॥

०४ यत् प्रातर् उपहरति

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्रातर् उपहरति
प्रातःसवनम् एव तत् ॥

०५ यद् दीवोपहरति माध्यन्दिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् दीवोपहरति
माध्यंदिनम् एव तत् सवनम् ॥

०६ यत् सायम् उपहरति

विश्वास-प्रस्तुतिः ...{Loading}...

यत् सायम् उपहरति
तृतीयसवनम् एव तत् ॥

०७ यद् अतिथिपतिर् अतिथीन्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अतिथिपतिर् अतिथीन् परिविष्यासनं याचते +++(Bhatt. pariviśyāsanaṃ)+++
अवभृथम् एव तद् उपावैति ॥ +++(Bhatt. upāvayati)+++

०८ यत् सभागयति दक्षिणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् सभागयति दक्षिणाम् एव तत् सभागयति
यद् अनुतिष्ठत्य् उदवस्यत्य् एव तत् ॥