११५

सर्वाष् टीकाः ...{Loading}...

०१ तस्मै वात उषा

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मै वात उषा हिङ् कृणोति
सविता भूत्या प्र स्तौति
बृहस्पतिर् ऊर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥

०२ तस्मा उद्यन्त् सूर्यो

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा उद्यन्त् सूर्यो हिङ्कृणोति
संगवः प्र स्तौति
मध्यन्दिन उद्गायत्य् अपराह्णः प्रति हरत्य् अस्तंयन् निधनम् ।
(…) ॥ +++(see 1d)+++

०३ तस्मा अभ्रो भवन्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा अभ्रो भवन् हिङ् कृणोति
विद्योतमानः प्र स्तौति
स्तनयन्न् उद्गायति वर्षन् प्रति हरत्य् उद्गृह्णन् निधनम् । +++(Bhatt. varṣaṃ … udgṛhṇaṃ)+++
(…) ॥ +++(see 1d)+++

०४ अतिथीन् प्रति पश्यति

विश्वास-प्रस्तुतिः ...{Loading}...

अतिथीन् प्रति पश्यति हिङ् कृणोत्य्
अभि वदति प्र स्तौत्य्
उदकं याचत्य् उद्गायत्य् उप हरति प्रति हरत्य् उच्छिष्टं निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥