११३

सर्वाष् टीकाः ...{Loading}...

०१ तस्मान् न द्विषन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मान् न द्विषन्न् अद्यान्
न द्विषतो ऽन्नम् अद्यान्
न मीमांसितस्य न मीमांस्यमानस्य ॥

०२ सर्वो वा एषो

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वो वा एषो जग्धपाप्मा
यस्यान्नम् अश्नन्ति ॥

०३ सर्व उ एषो

विश्वास-प्रस्तुतिः ...{Loading}...

सर्व उ एषो ऽजग्धपाप्मा
यस्यान्नं नाश्नन्ति ॥

०४ प्रजापतेर् वा एष

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतेर् वा एष विक्रान्तम् अनुविक्रमे य उपहरन्ति ॥

०५ प्रजापत्यो वा एतस्यैव

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापत्यो वा एतस्यैव यज्ञो विततो य उपहरति ॥

०६ सर्वदा वा एष

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वदा वा एष सुतसोमो युक्तग्रावार्द्रपवित्र
आहृतयज्ञक्रतुर् वितताधवरो य उपहरति ॥

०७ यो ऽतिथीनां स

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽतिथीनां स आहवनीयो
यो ऽन्नकरणः स दक्षिणाग्निर्
यो वेश्मनि स गार्हपत्यः ॥

०८ इष्टं च वा

विश्वास-प्रस्तुतिः ...{Loading}...

इष्टं च वा एष पूर्तं चाश्नाति
यः पूर्वो ऽतिथेर् अश्नाति ॥

०९ प्रजां च वा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजां च वा एष पशूंश् चाश्नाति
(…) ॥ +++(see 8b)+++

१० ऊर्जं च वा

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जं च वा एष पयश् च गृहाणाम् अश्नाति
यः पूर्वो ऽतिथेर् अश्नाति ॥

११ एष वा अतिथिर्

विश्वास-प्रस्तुतिः ...{Loading}...

एष वा अतिथिर् यच् छ्रोत्रियः ॥

१२ तस्मात् पूर्वो नाश्नीयाद्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मात् पूर्वो नाश्नीयाद् अशितावत्य् अश्नीयात् तद् व्रतम् ॥

१३ यज्ञस्याविच्छेदाय यज्ञस्य गुप्तये

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञस्याविच्छेदाय यज्ञस्य गुप्तये यज्ञस्य सात्मत्वाय ॥