११२

सर्वाष् टीकाः ...{Loading}...

०१ उलूखलं मुसलं ग्रावाणौ

विश्वास-प्रस्तुतिः ...{Loading}...

उलूखलं मुसलं ग्रावाणौ +++(Bhatt. ulūkhalamusalaṃ)+++
शूर्पं पवित्रं तूषा ऋजीषः ।
स्रुग् दर्विर् मेक्षणम् आयवनम्
आपो ऽभिषवणी यद् द्रोणकलशः कुम्भी ॥ +++(Bhatt. āpobhiṣavaṇī droṇakalaśaḥ)+++

०२ इदम् एव कृष्णाजिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् एव कृष्णाजिनं वायव्यानि पात्राणि ।
यजमानं ब्राह्मणं वा एतद् अतिथिपतिः कृणुते +++(Bhatt. yajamānabrāhmaṇaṃ)+++
यद् आहार्याण्य् अवेक्षत इदं भूया इदाम् इति ॥

०३ यद् आह भूय

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आह भूय उद्धरेति प्रजां चैव तेन पशूंश् च वर्धयते
प्राणम् एव तेन वर्षीयांसं कृणुते ।
यत् संपृच्छति कामम् एव तेनाव रुन्धे
कामं हि पृष्टो याचति ॥

०४ यद् उदकम् अभिषिञ्चत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् उदकम् अभिषिञ्चत्य् अप एव तेनाव रुन्धे ।
यद् उपहरति हवींष्य् आ सादयति ॥

०५ तेषाम् आसन्नानाम् अतिथिर्

विश्वास-प्रस्तुतिः ...{Loading}...

तेषाम् आसन्नानाम् अतिथिर् आत्मनि जुहोति ।
स्रुक्कारेण वषत्कारेण स्रुचा हस्तेन प्राणे यूपे ॥