१११

सर्वाष् टीकाः ...{Loading}...

०१ यो वा एकम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वा एकं ब्रह्मानुष्ठ्या विद्यात् स वा अद्य महद् वदेत् ॥

०२ परूंषि यस्य सम्भारा

विश्वास-प्रस्तुतिः ...{Loading}...

परूंषि यस्य संभारा
ऋचो यस्यानूक्यम् ॥

०३ छन्दांसि यस्य लोमानि

विश्वास-प्रस्तुतिः ...{Loading}...

छन्दांसि यस्य लोमानि
परिस्तरणम् इद् धविर्
यजुर् हृदयम् उच्यते ॥

०४ यद् अतिथिपतिर् अतिथीन्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अतिथिपतिर् अतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥

०५ यद् अभिवदति दीक्षाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अभिवदति दीक्षाम् उपैति
यद् उदकं याचत्य् अपः प्र णयति ।
या यज्ञा अपः प्रणीयन्ते ता एव ताः ॥

०६ यत् तर्पणम् आहरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यत् तर्पणम् आहरन्ति यो ऽग्नीषोमीयः पशुर् बध्यते स एव सः ॥

०७ यत् खातम् आहरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यत् खातम् आहरन्ति पुरोडाशा एव तौ
यद् आवसथान् कल्पयन्ति सदोहविर्धानान्य् एव तत् कल्पयन्ति ॥

०८ यद् उपस्तृणन्ति बर्हिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् उपस्तृणन्ति बर्हिर् एव तत् ॥

०९ यत् कशिपूपबर्हणान्य् आहरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यत् कशिपूपबर्हणान्य् आहरन्ति परिधय एव ते ।
यद् उपरिशयनम् आहरन्ति स्वर्गम् एव तेन लोकम् अव रुन्धे ॥

१० यद् अभ्यञ्जनम् आहरन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अभ्यञ्जनम् आहरन्त्य् आज्यम् एव तत् ।
यद् अशनकृतं ह्वयन्ति हविष्कृतम् एव तद् उ ह्वयन्ति ।
यद् व्रीहयो यद् यवा निरुप्यन्ते अंशव एव ते न्य् उप्यन्ते ॥