११०

सर्वाष् टीकाः ...{Loading}...

०१ वशाया दुग्धं पीत्वा

विश्वास-प्रस्तुतिः ...{Loading}...

वशाया दुग्धं पीत्वा
साध्या वसवश् च ये ।
अमी ब्रध्नस्य विष्टपि
पयो अस्या उपासते ॥

०२ सोमम् एनाम् एके

विश्वास-प्रस्तुतिः ...{Loading}...

सोमम् एनाम् एके दुह्रे
घृतम् एक उपासते ।
य एवं विदुषे वशां ददुस्
ते गतास् त्रिदिवं दिवः ॥

०३ वशां दत्त्वा ब्राह्मणेभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

वशां दत्त्वा ब्राह्मणेभ्यः (Bhatt. da(t)tvā)
सर्वांल् लोकान् सम् अश्नुते । (Bhatt. sarvāllokān)
ऋतं ह्य् अस्याम् आहितम्
अपि ब्रह्माथो तपः ॥

०४ वशां देवा उप

विश्वास-प्रस्तुतिः ...{Loading}...

वशां देवा उप जीवन्ति
वशां मनुष्या उत ।
वशेदं सर्वम् अभवद्
यावत् सूर्यो विपश्यति ॥