सर्वाष् टीकाः ...{Loading}...
०१ ईर्माभ्याम् अयनं जातम्
विश्वास-प्रस्तुतिः ...{Loading}...
ईर्माभ्याम् अयनं जातं
सक्थिभ्यां च वशे तव । +++(Bhatt. śaktibhyāṃ)+++
आन्त्रेभ्यो अत्रा जज्ञिर
उदराद् अधि वीरुधः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ईर्माभ्याम् अयनं जातं
सक्थिभ्यां च वशे तव । +++(Bhatt. śaktibhyāṃ)+++
आन्त्रेभ्यो अत्रा जज्ञिर
उदराद् अधि वीरुधः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् उदरं वरुणस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यद् उदरं वरुणस्य-
-अनु प्राविशथा वशे । +++(Bhatt. prāviśatā)+++
ततस् त्वा ब्रह्मोदह्वयत्
स हि नेत्रम् अवेत् तव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् उदरं वरुणस्य-
-अनु प्राविशथा वशे । +++(Bhatt. prāviśatā)+++
ततस् त्वा ब्रह्मोदह्वयत्
स हि नेत्रम् अवेत् तव ॥
सर्वाष् टीकाः ...{Loading}...
०३ सर्वे गर्भाद् अवेपन्त
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वे गर्भाद् अवेपन्त
जायमानाद् असूस्वः । +++(Bhatt. asusvaḥ)+++
ससूव हि ताम् आहुर् वशेति +++(Bhatt. sasuva)+++
ब्रह्मणा क्ल्̥प्त उत बन्धुर् अस्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वे गर्भाद् अवेपन्त
जायमानाद् असूस्वः । +++(Bhatt. asusvaḥ)+++
ससूव हि ताम् आहुर् वशेति +++(Bhatt. sasuva)+++
ब्रह्मणा क्ल्̥प्त उत बन्धुर् अस्याः ॥
सर्वाष् टीकाः ...{Loading}...
०४ युध एकः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
युध एकः सं सृजति
यो अस्या एक इद् वशी ।
तरांसि यज्ञा अभवन्
तरसां चक्षुर् अभवद् वशा ॥
मूलम् ...{Loading}...
मूलम् (GR)
युध एकः सं सृजति
यो अस्या एक इद् वशी ।
तरांसि यज्ञा अभवन्
तरसां चक्षुर् अभवद् वशा ॥
सर्वाष् टीकाः ...{Loading}...
०५ वशा सूर्यं प्रत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
वशा सूर्यं प्रत्य् अगृह्णाद्
वशा यज्ञम् अधारयत् ।
वशायाम् अन्तर् आविशद्
ओदनो ब्रह्मणा सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
वशा सूर्यं प्रत्य् अगृह्णाद्
वशा यज्ञम् अधारयत् ।
वशायाम् अन्तर् आविशद्
ओदनो ब्रह्मणा सह ॥
सर्वाष् टीकाः ...{Loading}...
०६ वशाम् एवाहुर् अमृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
वशाम् एवाहुर् अमृतं
वशां मृत्युम् उपासते ।
वशेदं सर्वम् अभवद् देवा +++(Bhatt. vasedaṃ)+++
मनुष्या असुराः पितर ऋषयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वशाम् एवाहुर् अमृतं
वशां मृत्युम् उपासते ।
वशेदं सर्वम् अभवद् देवा +++(Bhatt. vasedaṃ)+++
मनुष्या असुराः पितर ऋषयः ॥
सर्वाष् टीकाः ...{Loading}...
०७ य एवं विद्यात्
विश्वास-प्रस्तुतिः ...{Loading}...
य एवं विद्यात् स वशां प्रति गृह्णीयात् ।
तथा हि यज्ञः सर्वपाद्
दुहे दात्रे अनपस्फुरन् ॥ +++(Bhatt. anvasphuraṃ)+++
मूलम् ...{Loading}...
मूलम् (GR)
य एवं विद्यात् स वशां प्रति गृह्णीयात् ।
तथा हि यज्ञः सर्वपाद्
दुहे दात्रे अनपस्फुरन् ॥ +++(Bhatt. anvasphuraṃ)+++
सर्वाष् टीकाः ...{Loading}...
०८ तिस्रो जिह्वा वरुणस्य
विश्वास-प्रस्तुतिः ...{Loading}...
तिस्रो जिह्वा वरुणस्य-
-अन्तर् दिद्यत्य् आसनि ।
तासां या मध्ये राजति
स वशा दुष्प्रतिग्रहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
तिस्रो जिह्वा वरुणस्य-
-अन्तर् दिद्यत्य् आसनि ।
तासां या मध्ये राजति
स वशा दुष्प्रतिग्रहा ॥
सर्वाष् टीकाः ...{Loading}...
०९ चतुर्धा रेतो अभवद्
विश्वास-प्रस्तुतिः ...{Loading}...
चतुर्धा रेतो अभवद् वशाया
अपस् तुरीयम् अमृतं तुरीयं
यज्ञस् तुरीयं पशवस् तुरीयम् ।
य एवं विद्यात् स वशां प्रति गृह्णीयात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतुर्धा रेतो अभवद् वशाया
अपस् तुरीयम् अमृतं तुरीयं
यज्ञस् तुरीयं पशवस् तुरीयम् ।
य एवं विद्यात् स वशां प्रति गृह्णीयात् ॥
सर्वाष् टीकाः ...{Loading}...
१० वशा द्यौर् वशा
विश्वास-प्रस्तुतिः ...{Loading}...
वशा द्यौर् वशा पृथिवी
वशा विष्णुः प्रजापतिः ।
वशाया दुग्धम् अपिबन्
साध्या वसवश् च ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
वशा द्यौर् वशा पृथिवी
वशा विष्णुः प्रजापतिः ।
वशाया दुग्धम् अपिबन्
साध्या वसवश् च ये ॥