१०८

सर्वाष् टीकाः ...{Loading}...

०१ यत् ते क्रुद्धो

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते क्रुद्धो धनपतिः
क्षीरं ते अभरद् वशे ।
इदं तद् अद्य नाकस्
त्रिषु पात्रेषु रक्षति ॥

०२ त्रिषु पात्रेषु तम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिषु पात्रेषु तं सोमम्
आ देव्य् अभरद् वशा ।
अथर्वा यत्र दीक्षितो
बर्हिष्य् आस्त हिरण्यये ॥

०३ सं हि सोमेनागत

विश्वास-प्रस्तुतिः ...{Loading}...

सं हि सोमेनागत
सम् उ सर्वेण पद्वता ।
वशा समुद्रे प्रानर्तीद्
ऋचः सामानि बिभ्रती ॥

०४ सं हि सूर्येणागत

विश्वास-प्रस्तुतिः ...{Loading}...

सं हि सूर्येणागत
सम् उ सर्वेण चक्षुषा ।
वशा समुद्रम् अत्य् अष्ठाद्
गन्धर्वैः कलिभिः सह ॥

०५ सं हि वातेनागत

विश्वास-प्रस्तुतिः ...{Loading}...

सं हि वातेनागत
सम् उ सर्वैः पतत्रिभिः ।
वशा समुद्रम् अत्य् अख्यद्
भद्रा ज्योतींषि बिभ्रती ॥

०६ तद् भद्राः सम्

विश्वास-प्रस्तुतिः ...{Loading}...

तद् भद्राः सम् अगच्छन्त
वशा देष्ट्र्य् अथो स्वधा ।
अथर्वा यत्र दीक्षितो
बर्हिष्य् आस्त हिरण्यये ॥

०७ अभीवृता हिरण्येन यद्

विश्वास-प्रस्तुतिः ...{Loading}...

अभीवृता हिरण्येन
यद् अतिष्ठ ऋतावरि ।
अश्वः समुद्रो भूत्वा-
-अध्य् अस्कन्दद् वशे त्वा ॥

०८ वशा माता राजन्यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

वशा माता राजन्यस्य
वशा माता स्वधे तव ।
वशाया जज्ञ आयुधं +++(Bhatt. yajña)+++
ततश् चित्तम् अजायत ॥

०९ ऊर्ध्वो बिन्दुर् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वो बिन्दुर् उद् अचरद्
ब्रह्मणः ककुदाद् अधि ।
ततस् त्वं जज्ञिषे वशे
ततो होता अजायत ॥

१० आस्नस् ते गाथा

विश्वास-प्रस्तुतिः ...{Loading}...

आस्नस् ते गाथा भवन्तु-
-उष्णिहाभ्यो बलं तव ।
पाजस्याज् जज्ञे ते यज्ञ
स्तनेभ्यो रश्मयो वशे ॥