१०७

सर्वाष् टीकाः ...{Loading}...

०१ नमस् ते जायमानायै

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते जायमानायै
जाताया उत ते नमः ।
बालेभ्यः शफेभ्यो
रूपायाघ्न्ये ते नमः ॥

०२ यो विद्यात् सप्त

विश्वास-प्रस्तुतिः ...{Loading}...

यो विद्यात् सप्त प्रवतः
सप्त विद्यात् परावतः ।
शिरो यज्ञस्य यो विद्यात्
स वशां प्रति गृह्णीयात् ॥

०३ वेदाहं सप्त प्रवतः

विश्वास-प्रस्तुतिः ...{Loading}...

वेदाहं सप्त प्रवतः
सप्त वेद परावतः ।
शिरो यज्ञस्याहं वेद
सोमं चास्यां विचक्षणम् ॥

०४ यया द्यौर् यया

विश्वास-प्रस्तुतिः ...{Loading}...

यया द्यौर् यया पृथिवी
ययापो गुपिता इमाः ।
वशां सहस्रधारां
ब्रह्मणाच्छा वदामसि ॥

०५ शतं वत्साः शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं वत्साः शतं दोग्धारः
शतं गोप्तारो अधि पृष्ठे अस्याः ।
ये देवास् तस्यां प्राणन्ति
ते वशां विदुर् एकधा ॥

०६ यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञपदीराक्षीरा
स्वधाप्राणा महीलुका ।
वशा पर्जन्यपत्नी
देवाꣳ अप्येति ब्रह्मणा ॥

०७ अनु त्वाग्निः प्राविशद्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु त्वाग्निः प्राविशद्
अनु सोमो वशे त्वा ।
ऊधस् ते भद्रे पर्जन्यो
विद्युतस् ते स्तना वशे ॥

०८ अपस् त्वं धुक्षे

विश्वास-प्रस्तुतिः ...{Loading}...

अपस् त्वं धुक्षे प्रथमा
उर्वरा अपरा वशे ।
तृतीयं राष्ट्रं धुक्षे
अन्नं क्षीरं वशे त्वम् ॥

०९ यद् आदित्यैर् हूयमाना

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आदित्यैर् हूयमाना-
-उपतिष्ठ ऋतावरि ।
इन्द्रः सहस्रं पात्रैः
सोमं त्वापाययद् वशे ॥ (Bhatt. tvāpāyad)

१० यद् अनूचीन्द्रम् ऐर्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अनूचीन्द्रम् ऐर् (Bhatt. ayirāṭ)
आत् त्व ऋषभो ऽह्वयत् ।
तस्मात् ते वृत्रहा पयः
क्षीरं क्रुद्धो ऽभरद् वशे ॥