१०५

सर्वाष् टीकाः ...{Loading}...

०१ उरुः कोशो वसुधानस्

विश्वास-प्रस्तुतिः ...{Loading}...

उरुः कोशो वसुधानस् तवायं
यस्मिन्न् इमा विश्वा भूतान्य् अन्तः ।
स नो मृड पशुपते नमस् ते
परः क्रोष्टारो अभिभाः श्वानः ।
परो यन्त्व् अघरुदो विकेश्यः ॥

०२ धनुर् बिभर्षि हरितम्

विश्वास-प्रस्तुतिः ...{Loading}...

धनुर् बिभर्षि हरितं हिरण्ययं
सहस्रघ्नि शतवधं शिखण्डिन् । (thus ŚS; Bhatt. śikhaṇḍinam+)
रुद्रस्येषुश् चरति देवहेतिस्
तस्मै नमो यतमस्यां दिशीतः ॥ (Bhatt. yatamasyān)

०३ यो ऽभियातो निलयते

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽभियातो निलयते
त्वाम् उग्र निचिकीर्षति ।
पश्चाद् अनुप्रयुङ्क्षे
तं विद्धस्य पदनीर् इव ॥ (Bhatt. patanīr)

०४ भवारुद्रौ सयुजा संविदानाव्

विश्वास-प्रस्तुतिः ...{Loading}...

भवारुद्रौ सयुजा संविदानाव्
उभा उग्रौ चरतो वीर्याय ।
तयोर् भूमिर् अन्तरिक्षं स्वर् द्यौस्
ताभ्यां नमो भवमत्याय कृण्मः ॥

०५ नमस् ते अस्त्व्

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते अस्त्व् आयते
नमो अस्तु परायते ।
नमस् ते रुद्र तिष्ठत
आसीनायोत ते नमः ॥

०६ नमः सायं नमः

विश्वास-प्रस्तुतिः ...{Loading}...

नमः सायं नमः प्रातर्
नमो रात्र्या नमो दिवा ।
भवाय च शर्वाय च-
-उभाभ्याम् अकरं नमः ॥

०७ सहस्राक्षम् अतिपश्यं पुरस्ताद्

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्राक्षम् अतिपश्यं पुरस्ताद्
रुद्रम् अस्यन्तं बहुधा विपश्चितम् ।
मोपाराम जिह्वयेयमानम् ॥

०८ श्यावास्वां कृष्णम् असितम्

विश्वास-प्रस्तुतिः ...{Loading}...

श्यावास्वां कृष्णम् असितं मृणन्तं (Bhatt. gṛṇantaṃ)
भीमं रथं केशिनः पादयन्तम् ।
पूर्वे प्रतीमो नमो अस्त्व् अस्मै ॥ (Bhatt. pratīvo)

०९ मा नो ऽभि

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो ऽभि स्रा मत्यं देवहेतिं (Bhatt. devahatiṃ)
मा नः क्रुधः पशुपते नमस् ते ।
अन्यत्रास्मद् दिव्यां शाखां वि धूनु ॥

१० मा नो हिंसीर्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो हिंसीर् अधि ब्रूहि
परि णो वृङ्धि मा क्रुध । (Bhatt. kṣudhaḥ)
मा त्वया सम् अरामहि ॥