सर्वाष् टीकाः ...{Loading}...
०१ भवाशर्वौ मृडतं माभि
विश्वास-प्रस्तुतिः ...{Loading}...
भवाशर्वौ मृडतं माभि यातं
भूतपती पशुपती नमो वाम् ।
प्रतिहितम् आयतां मा वि स्राष्टं
मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भवाशर्वौ मृडतं माभि यातं
भूतपती पशुपती नमो वाम् ।
प्रतिहितम् आयतां मा वि स्राष्टं
मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥
सर्वाष् टीकाः ...{Loading}...
०२ शुने क्रोष्ट्रे मा
विश्वास-प्रस्तुतिः ...{Loading}...
शुने क्रोष्ट्रे मा शरीराणि कर्तम् (Bhatt. karttum)
अलिक्लवेभ्यो गृध्रेभ्यो
ये च कृष्णा अविष्यवः ।
मक्षिकाः पशुपते
वयांसि ते विघसे मा विदन्त ॥ (ŚS vidanta; Bhatt. viyanta)
मूलम् ...{Loading}...
मूलम् (GR)
शुने क्रोष्ट्रे मा शरीराणि कर्तम् (Bhatt. karttum)
अलिक्लवेभ्यो गृध्रेभ्यो
ये च कृष्णा अविष्यवः ।
मक्षिकाः पशुपते
वयांसि ते विघसे मा विदन्त ॥ (ŚS vidanta; Bhatt. viyanta)
सर्वाष् टीकाः ...{Loading}...
०३ क्रन्दाय ते प्राणाय
विश्वास-प्रस्तुतिः ...{Loading}...
क्रन्दाय ते प्राणाय ते
याश् च ते भव रोपयः ।
नमस् ते रुद्र कृण्मः
सहस्राक्षामर्त्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्रन्दाय ते प्राणाय ते
याश् च ते भव रोपयः ।
नमस् ते रुद्र कृण्मः
सहस्राक्षामर्त्य ॥
सर्वाष् टीकाः ...{Loading}...
०४ पुरस्तात् ते नमः
विश्वास-प्रस्तुतिः ...{Loading}...
पुरस्तात् ते नमः कृण्म
उत्तराद् अधराद् उत ।
अभीवर्गाद् दिवस् पर्य् (Bhatt. abhīvargā)
अन्तरिक्षाय ते नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुरस्तात् ते नमः कृण्म
उत्तराद् अधराद् उत ।
अभीवर्गाद् दिवस् पर्य् (Bhatt. abhīvargā)
अन्तरिक्षाय ते नमः ॥
सर्वाष् टीकाः ...{Loading}...
०५ मुखाय ते पशुपते
विश्वास-प्रस्तुतिः ...{Loading}...
मुखाय ते पशुपते
यानि चक्षूंषि ते भव ।
त्वचे रूपाय संदृशे
प्रतीचीनाय ते नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मुखाय ते पशुपते
यानि चक्षूंषि ते भव ।
त्वचे रूपाय संदृशे
प्रतीचीनाय ते नमः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अङ्गेभ्य उदराय जिह्वाया
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गेभ्य उदराय
जिह्वाया आस्याय च ।
दद्भ्यो गन्धाय ते नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गेभ्य उदराय
जिह्वाया आस्याय च ।
दद्भ्यो गन्धाय ते नमः ॥
सर्वाष् टीकाः ...{Loading}...
०७ अस्त्रा नीलशिखण्डेन सहस्राक्षेण
विश्वास-प्रस्तुतिः ...{Loading}...
अस्त्रा नीलशिखण्डेन
सहस्राक्षेण वाजिना ।
रुद्रेणाध्वगघातिना (Bhatt. -kaghātinā)
तेन मा सम् अरामहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्त्रा नीलशिखण्डेन
सहस्राक्षेण वाजिना ।
रुद्रेणाध्वगघातिना (Bhatt. -kaghātinā)
तेन मा सम् अरामहि ॥
सर्वाष् टीकाः ...{Loading}...
०८ स नो भवः
विश्वास-प्रस्तुतिः ...{Loading}...
स नो भवः परि वृणक्तु विश्वत
आप इवाग्निः परि वृणक्तु नो भवः ।
मा नो अभि मंस्त नमो अस्त्व् अस्मै ॥
मूलम् ...{Loading}...
मूलम् (GR)
स नो भवः परि वृणक्तु विश्वत
आप इवाग्निः परि वृणक्तु नो भवः ।
मा नो अभि मंस्त नमो अस्त्व् अस्मै ॥
सर्वाष् टीकाः ...{Loading}...
०९ चतुर् नमो अष्टकृत्वो
विश्वास-प्रस्तुतिः ...{Loading}...
चतुर् नमो अष्टकृत्वो भवाय
दश कृत्वः पशुपते नमस् ते ।
तवेमे पञ्च पशवो विभक्ता
गावो अश्वाः पुरुषा आद् अजावयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतुर् नमो अष्टकृत्वो भवाय
दश कृत्वः पशुपते नमस् ते ।
तवेमे पञ्च पशवो विभक्ता
गावो अश्वाः पुरुषा आद् अजावयः ॥
सर्वाष् टीकाः ...{Loading}...
१० तव चतस्रः प्रदिशस्
विश्वास-प्रस्तुतिः ...{Loading}...
तव चतस्रः प्रदिशस् तव द्यौस्
तवेदम् उग्रोर्व् अन्तरिक्षम् ।
तवेदं सर्वम् आत्मन्वद्
यद् एजद् अधि भूम्याम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तव चतस्रः प्रदिशस् तव द्यौस्
तवेदम् उग्रोर्व् अन्तरिक्षम् ।
तवेदं सर्वम् आत्मन्वद्
यद् एजद् अधि भूम्याम् ॥