१०२

सर्वाष् टीकाः ...{Loading}...

०१ ऊनात् पूर्णम् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊनात् पूर्णम् उद् अचति
पूर्णाद् ऊनम् उद् अच्यते ।
कविष् टद् ब्रह्मा वेद
यतस् तत् परिषिच्यते ॥

०२ प्रजापतिश् चरति गर्भे

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिश् चरति गर्भे अन्तर्
अदृश्यमानो बहुधा प्र जायते ।
अर्धेन विश्वं भुवनं जजान
यद् अस्यार्धं किम् उ तज् जजान ॥

०३ यद् एजति चरति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् एजति चरति यच् च तिष्ठत्य्
अप्राणत् प्राणन् निमिषच् च तिष्ठत् । (Bhatt. aprāṇaprāṇaṃ … ceṣṭata, with proposal for emend.)
तद् दाधार पृथिवीं विश्वरूपं
तत् संभूय भवत्य् एकम् एव ॥

०४ या पुरस्ताद् युज्यते

विश्वास-प्रस्तुतिः ...{Loading}...

या पुरस्ताद् युज्यते योत पश्चाद् (Bhatt. yāḥ)
या विश्वतो युज्यते योत सर्वतः ।
यया यज्ञस् तायते प्राङ्
तां त्वा पृच्छामि कतमा नु सर्चाम् ॥

०५ यतः सूर्य उदेत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यतः सूर्य उदेत्य्
अस्तं यत्र च गच्छति ।
तद् एव मन्ये ऽहं ज्येष्ठं
ततो नाप्य् एति किं चन ॥

०६ सत्येनोर्ध्वस् तपति ब्रह्मणा

विश्वास-प्रस्तुतिः ...{Loading}...

सत्येनोर्ध्वस् तपति ब्रह्मणा-
-अर्वाङ् वि पश्यति ।
प्राणेन तिर्यङ् प्राणति
यस्मिन् ज्येष्ठम् अधि श्रितम् ॥ (Bhatt. yasmiṃ)

०७ यो वै ते

विश्वास-प्रस्तुतिः ...{Loading}...

यो वै ते विद्याद् अरणी
याभ्यां निर्मथ्यते वसु ।
स विद्वान् ज्येष्ठं मन्येत (Bhatt. vidyāṃ)
स विद्याद् ब्राह्मणं महत् ॥

०८ अपाद् अग्रे सम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपाद् अग्रे सम् अभवत्
सो अग्रे स्वर् आभरत् ।
चतुष्पाद् भूत्वा भोग्यः
सर्वम् आदत्त भोजनम् ॥

०९ भोग्यो भवद् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

भोग्यो भवद्
अथो अन्नम् अदद् बहु ।
यो देवम् उत्तरावन्तम्
उपासातै सनातनम् ॥

१० सनातनम् एनम् आहुर्

विश्वास-प्रस्तुतिः ...{Loading}...

सनातनम् एनम् आहुर्
उताद्यासत् पुनर् नवः ।
अहोरात्रे प्र जायेते
अन्यो अन्यस्य रूपयोः ॥