१०१

सर्वाष् टीकाः ...{Loading}...

०१ स्कम्भेनेमे विष्कभिते द्यौश्

विश्वास-प्रस्तुतिः ...{Loading}...

स्कम्भेनेमे विष्कभिते
द्यौश् च भूमिश् च तिष्ठतः ।
स्कम्भ इदं सर्वम् आर्पितम् एजद्
यत् प्राणन् निमिषच् च यत् ॥ +++(Bhatt. ejat prāṇaṃ)+++

०२ एकचक्रं वर्तत एकनेमि

विश्वास-प्रस्तुतिः ...{Loading}...

एकचक्रं वर्तत एकनेमि
सहस्राक्षरं प्र पुरो नि पश्चात् ।
अर्धेनेदं परि बभूव विश्वं
यद् अस्यार्धं कतमः स केतुः ॥

०३ पञ्चवाहि वहत्य् अग्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चवाहि वहत्य् अग्रम् अस्य
पृष्टयो युक्ता अनुसंवहन्ति ।
अयातम् अस्य ददृशे न यातं
परं नेदीयो ऽवरं दवीयः ॥

०४ इदं सवितर् वि

विश्वास-प्रस्तुतिः ...{Loading}...

इदं सवितर् वि जानीहि +++(Bhatt. savitur)+++
षड् यमा एक एकजः ।
तस्मिन् हापित्वम् इच्छन्ते
य एषाम् एक एकजः ॥

०५ तिर्यग्बिलश् चमस ऊर्ध्वबुध्नो

विश्वास-प्रस्तुतिः ...{Loading}...

तिर्यग्बिलश् चमस ऊर्ध्वबुध्नो
यस्मिन् यशो निहितं विश्वरूपम् ।
अत्रासत ऋषयः सप्त साकं
ये अस्य गोपा महतो बभूवुः ॥

०६ तिस्रो ह प्रजा

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो ह प्रजा अत्यायम् आयन्
न्य् अन्या अर्कम् अभितो +ऽविशन्त । +++(Bhatt. viśantu)+++
बृहन् ह तस्थौ रजसो विमानो
हरितो हरिणीर् आ विवेश ॥

०७ द्वादश प्रधयश् चक्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

द्वादश प्रधयश् चक्रम् एकं
त्रीणि नभ्यानि क उ तच् चिकेत । +++(Bhatt. naddhāni)+++
तत्राहतास् त्रीणि शतानि शङ्कवः
षष्टिश् च खीला अविचाचला ये ॥

०८ अनन्तं विततं पुरुत्रा

विश्वास-प्रस्तुतिः ...{Loading}...

अनन्तं विततं पुरुत्रा अनन्तम्
अन्तवच् चा समक्ते ।
ते नाकपालश् चरति प्रजानन्
विद्वान् भूतं यद् उ भव्यम् अस्य ॥

०९ आविः सन् निहितम्

विश्वास-प्रस्तुतिः ...{Loading}...

आविः सन् निहितं गुहा
जरन् नाम महत् पदम् । +++(Bhatt. caran)+++
तत्रैदं सर्वम् आर्पितम्
एजत् प्राणन् निमिषच् च यत् ॥ +++(Bhatt. prāṇaṃ)+++

१० ऊर्ध्वं भरन्तम् उदकम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वं भरन्तम् उदकं
कुम्भेनेवोदहार्यम् ।
पश्यन्ति सर्वे चक्षुषा
न सर्वे मनसा विदुः ॥