१००

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्राय भागं सविता

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राय भागं सविता कृणोत्व्
इमं यज्ञं यज्ञपतिश् च सूरिः ।
ये नो द्वेषन्त्य् अनु तान् रभस्व- +++(Bhatt. tā)+++
-अरिष्टा वीरा यजमानस्य सर्वे ॥ +++(emend. Kim 2019; Bhatt. yajamānaś ca)+++

०२ पञ्च लोकाः पञ्च

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्च लोकाः पञ्च र्तवः ।
पञ्चस्व् ऋतुष्व् ऋध्नोति +++(Bhatt. pañcasututuṣṭudhnoti, with this proposal of emend.)+++
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥

०३ एष वै निदाघो

विश्वास-प्रस्तुतिः ...{Loading}...

एष वै निदाघो यज्ञो
यद् अजः पञ्चौदनः । +++(Bhatt. adaḥ, with this proposal of emend.)+++
निर् अप्रियं भ्रातृव्यं दहति +++(nir with ŚS; Bhatt. narapriyaṃ)+++
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
(…) ॥ +++(see 2c)+++

०४ यो वा आयन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वा आयन्तम् इत्य् ऋतुं वेद । +++(Bhatt. ṛtaṃ, with proposal of this emend.)+++
आयतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते
भवत्य् आत्मना (…) +++(see 3d)+++
(…) ॥ +++(see 2c)+++

०५ वै संयन्तम् इति

विश्वास-प्रस्तुतिः ...{Loading}...

(…) वै संयन्तम् इति (…) । +++(see 4a)+++
संयतीम् एव (…) ॥ +++(see 4bcd)+++

०६ वै भवन्तम् इति

विश्वास-प्रस्तुतिः ...{Loading}...

(…) वै भवन्तम् इति (…) । +++(see 4a)+++
भवन्तीम् एव (…) ॥ +++(see 4bcd)+++

०७ वा अभिभवन्तम् इति

विश्वास-प्रस्तुतिः ...{Loading}...

(…) वा अभिभवन्तम् इति (…) । +++(see 4a)+++
अभिभवन्तीम् एव (…) ॥ +++(see 4bcd)+++

०८ वा उद्यन्तम् इति

विश्वास-प्रस्तुतिः ...{Loading}...

(…) वा उद्यन्तम् इति (…) । +++(see 4a)+++
उद्यतीम् एव (…) ॥ +++(see 4bcd)+++

०९ वै मूर्धानम् इति

विश्वास-प्रस्तुतिः ...{Loading}...

(…) वै मूर्धानम् इति (…) । +++(see 4a)+++
मूर्ध्नीम् एव (…) ॥ +++(see 4bcd)+++

१० यो वै सर्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वै सर्वम् इत्य् ऋतुं वेद ।
सर्वाम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥

११ यावन्त्य् अस्य लोमानि

विश्वास-प्रस्तुतिः ...{Loading}...

यावन्त्य् अस्य लोमानि
ब्रह्मास्तृणोति वेद्याम् ।
तावतीर् अस्य धाराः
समुद्रस्येवाक्षिताः ॥

१२ दुहां क्षीरं भवतु

विश्वास-प्रस्तुतिः ...{Loading}...

दुहां क्षीरं भवतु सर्पिर् एभ्यः
सुरा भूत्वोप तिष्ठात् सुरापाम् ।
मधोर् धारा मधुपेभ्यो दुहानो
ऽजो नाके तिष्ठतु मोदमानः ॥