०९९

सर्वाष् टीकाः ...{Loading}...

०१ प्राच्यां दिशि शिरो

विश्वास-प्रस्तुतिः ...{Loading}...

प्राच्यां दिशि शिरो अजस्य धेहि
दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ।
प्रतीच्यां दिशि भसदम् अस्य
उदीच्यां दिश्य् उत्तरं धेहि पार्श्वम् ॥

०२ अजस्यानूकम् ऊर्ध्वायां दिशि

विश्वास-प्रस्तुतिः ...{Loading}...

अजस्यानूकम् ऊर्ध्वायां दिशि धेहि +++(Bhatt. ajasyānukam)+++
दिशि धेहि पाजस्यं ध्रुवायाम् ।
अन्तरिक्षे मध्यतो मध्यम् अस्य
पद्भिश् चतुर्भिः प्रति तिष्ठ दिक्षु ॥

०३ शृतम् अजं शृतया

विश्वास-प्रस्तुतिः ...{Loading}...

शृतम् अजं शृतया प्रोर्णुहि त्वचा
सर्वैर् अङ्गैः संभृतं विश्वरूपम् ।
स उत् तिष्ठ प्रेहि नाकम् उत्तमं
पद्भिश् चतुर्भिः प्रति तिष्ठ दिक्षु ॥

०४ सर्वा दिशः संविदानाः

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वा दिशः संविदानाः सध्रीचीः
सान्तर्देशाः प्रति गृह्णन्तु तेजसम् ।
ते रक्षन्तु तव तुभ्यम् एतं
ताभ्यो जुहोमि हविषा घृतेन ॥

०५ यं ब्राह्मणे निदधे

विश्वास-प्रस्तुतिः ...{Loading}...

यं ब्राह्मणे निदधे यं च विक्षु +++(Bhatt. nidade … dikṣu)+++
या विप्रुष ओदनानाम् अजस्य ।
सर्वं तद् अग्ने सुकृतस्य लोके
जानीतान् नः संगमने पथीनाम् ॥

०६ अजः पञ्चौदनो व्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अजः पञ्चौदनो व्य् अक्रमत ।
तस्योर इयम् अभवद्
उदरम् अन्तरिक्षं द्यौः पृष्ठं दिशः पार्श्वे ॥

०७ दितिश् चादितिश् च

विश्वास-प्रस्तुतिः ...{Loading}...

दितिश् चादितिश् च शृङ्गे
सत्यं च र्तं च चक्षुषी ।
विश्वं रूपं श्रद्धा प्राणो विराट् शिरः ॥

०८ एष वा अपरिमितो

विश्वास-प्रस्तुतिः ...{Loading}...

एष वा अपरिमितो यज्ञो
यद् अजः पञ्चौदनः । +++(Bhatt. adaḥ, with proposal of emend. ad 16.100.3b)+++
अपरिमितं लोकं जयत्य्
अपरिमितं लोकम् अव रुन्धे
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥

०९ नास्यास्थीनि भिन्द्यान् न

विश्वास-प्रस्तुतिः ...{Loading}...

नास्यास्थीनि भिन्द्यान् +++(Bhatt. bhindyāṃ)+++
न मज्ज्ञो निर् धयेत् । +++(Bhatt. majño nirdaye)+++
सर्वाणि समादाय-
-इदंइदं प्र वेशयेत् ॥ +++(Bhatt. samādāyevim idaṃ pra veśaye)+++

१० इदम् इदम् अस्य

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् इदम् अस्य रूपं
तेनैनं सं गमयति ।
स्वधाम् ऊर्जम् अक्षितिं महो अस्मै दुहे
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥