०९८

सर्वाष् टीकाः ...{Loading}...

०१ ज्योतिष्मन्तं सुकृतां लोकम्

विश्वास-प्रस्तुतिः ...{Loading}...

ज्योतिष्मन्तं सुकृतां लोकम् ईप्सन्
पञ्चौदनं ब्रह्मणे ऽजं ददाति ।
स व्याप्नुह्य् अभि लोकं जयास्मै
शिवो ऽस्मभ्यं प्रतिगृहीत एधि ॥

०२ अजस् त्रिनाके त्रिदिवे

विश्वास-प्रस्तुतिः ...{Loading}...

अजस् त्रिनाके त्रिदिवे त्रिपृष्ठे
सुकृतां लोके ददिवांसं दधाति । (Bhatt. yadivāsaṃ)
पञ्चौदनो ब्रह्मणे दीयमानः
स दातारं तृप्त्या तर्पयासि ॥

०३ अजो ह्य् अग्नेर्

विश्वास-प्रस्तुतिः ...{Loading}...

अजो ह्य् अग्नेर् अजनिष्ट शोकाद्
विप्रो विप्रस्य सहसो वयोधाः ।
हुतम् इष्टम् अभिपूर्तं वषट्कृतं
तद् देवा ऋतुशः कल्पयन्तु ॥

०४ अमोतं वासो दध्याद्

विश्वास-प्रस्तुतिः ...{Loading}...

अमोतं वासो दध्याद्
धिरण्यम् अपि दक्षिणाम् ।
तथा लोकान् समाप्नुयाद्
ये दिव्या ये च पार्थिवाः ॥

०५ एतास् त्वाज धारा

विश्वास-प्रस्तुतिः ...{Loading}...

एतास् त्वाज धारा उप यन्तु विश्वतः (Bhatt. tvāda, but with proposal of emend.)
सोम्या देवीर् घृतपृष्ठा मधुश्चुतः ।
स्तभान पृथिवीं दिवं सचस्व
नाके तिष्ठास्य् अधि सप्तरश्मौ ॥

०६ पृष्ठात् पृथिव्या इति

विश्वास-प्रस्तुतिः ...{Loading}...

पृष्ठात् पृथिव्या इति चतस्रः ॥ (PS 3.38.8-11 are repeated)

०७

विश्वास-प्रस्तुतिः ...{Loading}...

(…) ॥ (PS 3.38.9 is repeated)

०८

विश्वास-प्रस्तुतिः ...{Loading}...

(…) ॥ (PS 3.38.10 is repeated)

०९

विश्वास-प्रस्तुतिः ...{Loading}...

(…) ॥ (PS 3.38.11 is repeated)

१० पञ्चौदनं पञ्चभिर् अङ्गुलीभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चौदनं पञ्चभिर् अङ्गुलीभिर्
दर्व्योद् धर पञ्चधौदनम् एतम् ।
प्राचीं दिशं दक्षिणां प्रतीचीम्
उदीचीं ध्रुवाम् ऊर्ध्वां दिशम् आ क्रमस्व ॥