०९७

सर्वाष् टीकाः ...{Loading}...

०१ आ नयैतम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

आ नयैतम् आ रभस्व सुकृतां +++(Bhatt. nayaitum)+++
लोकम् अपि गच्छतु प्रजानन् ।
तीर्त्वा तमांसि बहुधा विपश्यन्न्
अजो नाकम् आ क्रमतां तृतीयम् ॥

०२ प्र पदो नेनिग्धि

विश्वास-प्रस्तुतिः ...{Loading}...

प्र पदो नेनिग्धि दुश्चरितं यच् चचार
शुद्धैः शफैर् आ क्रमतां प्रजानन् ।
ज्योतिष्मन्तं सुकृतां लोकम् ईप्सन्
तृतीये नाके अधि वि क्रमस्व ॥

०३ अनु छ्य श्यामेन

विश्वास-प्रस्तुतिः ...{Loading}...

अनु छ्य श्यामेन त्वचम् एतां विशस्तर् +++(Bhatt. anu psāmena … viśastad)+++
यथापर्व् असिना माति मंस्थाः ।
माभि द्रुहः परुशः कल्पयैनं +++(Bhatt. paruṣyaḥ)+++
सुकृतां मध्ये अधि वि श्रयेमम् ॥

०४ भूम्यां त्वा भूमिम्

विश्वास-प्रस्तुतिः ...{Loading}...

भूम्यां त्वा भूमिम् अधि धेह्य् एताम्
आ सिञ्चोदकम् अव धेह्य् एनम् ।
पर्य् आधत्ताग्निना शमितारः
शृतो गच्छतु सुकृतां यत्र लोकः ॥ +++(Bhatt. śṛco)+++

०५ उत् क्रामातः परि

विश्वास-प्रस्तुतिः ...{Loading}...

उत् क्रामातः परि चेद् अतप्तस्
तप्ताच् चरोर् अधि नाकं तृतीयम् । +++(Bhatt. cetutaptātaptā caror)+++
अग्नेर् अग्निर् अधि सं बभूविथ
ज्योतिष्मान् गच्छ सुकृतां यत्र लोकः ॥

०६ पञ्चौदनः पञ्चधा वि

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चौदनः पञ्चधा वि क्रमस्व-
-आक्रंस्यमानः पञ्च ज्योतीँषि ।
ईजानानां सुकृतां प्रेहि मध्यं
ज्योतिष्मन्तम् अभि लोकं जयास्मै ॥

०७ अजम् एवाग्निम् अजम्

विश्वास-प्रस्तुतिः ...{Loading}...

अजम् एवाग्निम् अजम् इज् ज्योतिर् आहुर्
अजं ब्रह्मणे जीयता देयम् आहुः ।
अजस् तमांस्य् अप हन्ति दूरम्
अस्मिंल् लोके श्रद्दधानेन दत्तः ॥ +++(Bhatt. asmilloke)+++

०८ एतद् वो ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

एतद् वो ज्योतिः पितरस् तृतीयं
पञ्चौदनं ब्रह्मणे ऽजं ददाति ।
अजस् तमांस्य् अप हन्ति दूरं
पञ्चौदनो ब्रह्मणे दीयमानः ॥

०९ पञ्चौदनो ब्रह्मणे दीयमानो

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चौदनो ब्रह्मणे दीयमानो
ऽजो नाकम् आ क्रमतां तृतीयम् ।
विचक्रमाणः सुकृतस्य लोके
स ज्योतिषा तमो अप हन्ति दूरम् ॥

१० अजा क्रमस्व सुकृताम्

विश्वास-प्रस्तुतिः ...{Loading}...

अजा क्रमस्व सुकृतां यत्र लोकः
शरभो नु चत्तो अति दुर्गाणि नेषतः । +++(Bhatt. proposes to emend neṣaḥ)+++
पञ्चौदनो ब्रह्मणे दीयमानो
विश्वरूपा कामदुघास्य् एका ॥