०९६

सर्वाष् टीकाः ...{Loading}...

०१ पुमान् पुंसो अधि

विश्वास-प्रस्तुतिः ...{Loading}...

पुमान् पुंसो अधि तिष्ठ चर्म
न ते शिष्णं प्र दहाज् जातवेदाः ।
भवात् ते स्त्रैणम् अप्य् अप्सरासु ॥

०२ महती द्यावापृथिवी अन्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

महती द्यावापृथिवी
अन्तरिक्षम् इदं महत् ।
महान् महिम्ना सर्वाङ्ग
यस् त्वा पचत्य् ओदन ॥

०३ सप्तैनं सूर्या अभितः

विश्वास-प्रस्तुतिः ...{Loading}...

सप्तैनं सूर्या अभितः (Bhatt. sūryāvitaḥ)
सप्त पुष्करिणीर् उत ।
सप्तो सहस्रं गन्धर्वा
यस् त्वा पचत्य् ओदन ॥

०४ धातैषाम् उद्गातासीद् देवा

विश्वास-प्रस्तुतिः ...{Loading}...

धातैषाम् उद्गातासीद्
देवा होतार ऋत्विजः ।
सर्वाङ्गं यत्रौदनं
सत्येनाग्रे समैरयन् ॥

०५ सप्त ऋषयो भूतकृत

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त ऋषयो भूतकृत
ऋषयः साध्याश् च ये ।
ते वै सर्वाङ्गम् ओदनं
श्रद्धयाग्रे सम् ऐरयन् ॥

०६ यः सर्वाङ्गं पचति

विश्वास-प्रस्तुतिः ...{Loading}...

यः सर्वाङ्गं पचति
ब्राह्मणं च न हिंसति ।
तस्मै ज्योतिष्मन्तं लोकं
यमो राजाभि रक्षति ॥

०७ तं सर्वाङ्गं घृतपृष्ठम्

विश्वास-प्रस्तुतिः ...{Loading}...

तं सर्वाङ्गं घृतपृष्ठं
द्युमात्रं देवसंहितम् । (Bhatt. dyaumātraṃ)
नि धत्स्वामुत्र शेवधिं
तं ते ब्रह्माभि रक्षतु ॥

०८ तस्यौदनस्योदरम् अन्तरिक्षं द्यौः

विश्वास-प्रस्तुतिः ...{Loading}...

तस्यौदनस्योदरम् अन्तरिक्षं
द्यौः पृष्ठं दिशः पार्श्वे ।
सूर्याचन्द्रमसाव् अक्ष्याव् (Bhatt. akṣāv)
ऋतवो दन्ताः पवमानः प्राणो अङ्गिरसो रूपम् ॥