सर्वाष् टीकाः ...{Loading}...
०१ बभ्रेर् अध्वर्यो मुखम्
विश्वास-प्रस्तुतिः ...{Loading}...
बभ्रेर् अध्वर्यो मुखम् एतद् वि मृड्ढ्य् (Bhatt. mṛḍhy)
आज्याय लोकं कृणुहि प्रजानन् ।
घृतेन गात्रानु सर्वा वि मृड्ढि (Bhatt. mṛḍhi)
कृण्वे पन्थां पितृषु यः स्वर्गः ॥
मूलम् ...{Loading}...
मूलम् (GR)
बभ्रेर् अध्वर्यो मुखम् एतद् वि मृड्ढ्य् (Bhatt. mṛḍhy)
आज्याय लोकं कृणुहि प्रजानन् ।
घृतेन गात्रानु सर्वा वि मृड्ढि (Bhatt. mṛḍhi)
कृण्वे पन्थां पितृषु यः स्वर्गः ॥
सर्वाष् टीकाः ...{Loading}...
०२ बभ्रे रक्षः समदम्
विश्वास-प्रस्तुतिः ...{Loading}...
बभ्रे रक्षः समदम् आ वपैभ्यो (Bhatt. rakṣasva)
ब्राह्मणा यतमे त्वोपसीदान् ।
पुरीषिणः प्रथमानाः पुरस्ताद्
आर्षेयास् ते मा रिषन् प्राशितारः ॥
मूलम् ...{Loading}...
मूलम् (GR)
बभ्रे रक्षः समदम् आ वपैभ्यो (Bhatt. rakṣasva)
ब्राह्मणा यतमे त्वोपसीदान् ।
पुरीषिणः प्रथमानाः पुरस्ताद्
आर्षेयास् ते मा रिषन् प्राशितारः ॥
सर्वाष् टीकाः ...{Loading}...
०३ आर्षेयेषु नि दध
विश्वास-प्रस्तुतिः ...{Loading}...
आर्षेयेषु नि दध ओदन त्वा
नानार्षेयाणाम् अप्य् अस्त्य् अत्र । (Bhatt. nānāṛṣeyāṇām)
अग्निर् मे गोप्ता मरुतश् च सर्वे
विश्वे देवा अभि रक्षन्तु पक्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आर्षेयेषु नि दध ओदन त्वा
नानार्षेयाणाम् अप्य् अस्त्य् अत्र । (Bhatt. nānāṛṣeyāṇām)
अग्निर् मे गोप्ता मरुतश् च सर्वे
विश्वे देवा अभि रक्षन्तु पक्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यज्ञं दुहानं सदम्
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञं दुहानं सदम् इत् प्रपीनं
पुमांसं धेनुं सदनं रयीणाम् ।
प्रजामृतत्वम् उत दीर्घम् आयू (Bhatt. āyu)
रायश् च पोषम् उप त्वा सदेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञं दुहानं सदम् इत् प्रपीनं
पुमांसं धेनुं सदनं रयीणाम् ।
प्रजामृतत्वम् उत दीर्घम् आयू (Bhatt. āyu)
रायश् च पोषम् उप त्वा सदेम ॥
सर्वाष् टीकाः ...{Loading}...
०५ वृषभो ऽसि स्वर्ग
विश्वास-प्रस्तुतिः ...{Loading}...
वृषभो ऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ ।
सुकृतां लोके सीद तन् नौ संकृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषभो ऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ ।
सुकृतां लोके सीद तन् नौ संकृतम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ सम् आ चिनुष्वानुसम्प्रेह्य्
विश्वास-प्रस्तुतिः ...{Loading}...
सम् आ चिनुष्वानुसंप्रेह्य्
अग्ने पथः कल्पय देवयानान् ।
एभिः सुकृतैर् अनु प्र ज्ञेष्म यज्ञे
नाके तिष्ठन्तम् अधि सप्तरश्मौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम् आ चिनुष्वानुसंप्रेह्य्
अग्ने पथः कल्पय देवयानान् ।
एभिः सुकृतैर् अनु प्र ज्ञेष्म यज्ञे
नाके तिष्ठन्तम् अधि सप्तरश्मौ ॥
सर्वाष् टीकाः ...{Loading}...
०७ येन देवा ज्योतिषा
विश्वास-प्रस्तुतिः ...{Loading}...
येन देवा ज्योतिषा द्याम् उदायन्
ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
तं त्वा पचामि ज्योतिषां ज्योतिर् उत्तमं
स नस् तं धेहि सुकृताम् उलोके ॥
मूलम् ...{Loading}...
मूलम् (GR)
येन देवा ज्योतिषा द्याम् उदायन्
ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
तं त्वा पचामि ज्योतिषां ज्योतिर् उत्तमं
स नस् तं धेहि सुकृताम् उलोके ॥