सर्वाष् टीकाः ...{Loading}...
०१ सहस्रपृष्ठः शतधारो अक्षितो
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्रपृष्ठः शतधारो अक्षितो
ब्रह्मौदनो देवयानः स्वर्गः ।
अमूंस् त आ दधामि प्रजया रेषय-
-एनं बलिहाराय मृडतां मह्यम् एव ॥ (Bhatt. resahainaṃ … kṛṇutāṃ)
मूलम् ...{Loading}...
मूलम् (GR)
सहस्रपृष्ठः शतधारो अक्षितो
ब्रह्मौदनो देवयानः स्वर्गः ।
अमूंस् त आ दधामि प्रजया रेषय-
-एनं बलिहाराय मृडतां मह्यम् एव ॥ (Bhatt. resahainaṃ … kṛṇutāṃ)
सर्वाष् टीकाः ...{Loading}...
०२ उद् एहि वेदिम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् एहि वेदिं प्रजया वर्धयैनं
नुदस्व रक्षः प्रतरं धेह्य् एनम् ।
श्रिया समानान् अति सर्वान्त् स्याम- (Bhatt. sarvāṃ)
-अधस्पदं द्विषतः पादयेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् एहि वेदिं प्रजया वर्धयैनं
नुदस्व रक्षः प्रतरं धेह्य् एनम् ।
श्रिया समानान् अति सर्वान्त् स्याम- (Bhatt. sarvāṃ)
-अधस्पदं द्विषतः पादयेम ॥
सर्वाष् टीकाः ...{Loading}...
०३ ऋतेन तष्टा मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतेन तष्टा मनसा हितेयं (Bhatt. tiṣṭhā)
ब्रह्मौदनस्य निहिता वेदिर् अग्रे ।
अंशध्रीं शुद्धाम् उप धेहि नारि (Bhatt. aśadhrīṃ, misprint?)
तत्रौदनं सादय दैवानाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतेन तष्टा मनसा हितेयं (Bhatt. tiṣṭhā)
ब्रह्मौदनस्य निहिता वेदिर् अग्रे ।
अंशध्रीं शुद्धाम् उप धेहि नारि (Bhatt. aśadhrīṃ, misprint?)
तत्रौदनं सादय दैवानाम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ अदितेर् हस्तां स्रुचम्
विश्वास-प्रस्तुतिः ...{Loading}...
अदितेर् हस्तां स्रुचम् एतां द्वितीयां
सप्तर्षयो भूतकृतो याम् अकृण्वन् ।
सा गात्राणि विदुष्य् ओदनस्य
दर्विर् वेद्याम् अध्य् एनं चिनोतु ॥ (Bhatt. enañ)
मूलम् ...{Loading}...
मूलम् (GR)
अदितेर् हस्तां स्रुचम् एतां द्वितीयां
सप्तर्षयो भूतकृतो याम् अकृण्वन् ।
सा गात्राणि विदुष्य् ओदनस्य
दर्विर् वेद्याम् अध्य् एनं चिनोतु ॥ (Bhatt. enañ)
सर्वाष् टीकाः ...{Loading}...
०५ शृतं त्वा हविर्
विश्वास-प्रस्तुतिः ...{Loading}...
शृतं त्वा हविर् उप सीदन्तु दैवा
निसृप्याग्ने पुनर् एनं प्र सीद (Bhatt. sarpya)
सोमेन पूतो जठरे सीद ब्रह्मणाम्
आर्षेयास् ते मा रिषन् प्राशितारः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शृतं त्वा हविर् उप सीदन्तु दैवा
निसृप्याग्ने पुनर् एनं प्र सीद (Bhatt. sarpya)
सोमेन पूतो जठरे सीद ब्रह्मणाम्
आर्षेयास् ते मा रिषन् प्राशितारः ॥
सर्वाष् टीकाः ...{Loading}...
०६ सोम राजन् सञ्ज्ञानम्
विश्वास-प्रस्तुतिः ...{Loading}...
सोम राजन् संज्ञानम् आ वपैभ्यः
सुब्राह्मणा यतमे त्वोपसीदान् ।
ऋषीन् आर्षेयांस् तपसो ऽधि जातान् (Bhatt. jātāṃ)
ब्रह्मौदने सुहवा जोहवीमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोम राजन् संज्ञानम् आ वपैभ्यः
सुब्राह्मणा यतमे त्वोपसीदान् ।
ऋषीन् आर्षेयांस् तपसो ऽधि जातान् (Bhatt. jātāṃ)
ब्रह्मौदने सुहवा जोहवीमि ॥
सर्वाष् टीकाः ...{Loading}...
०७ इमा आपो मधुमतीर्
विश्वास-प्रस्तुतिः ...{Loading}...
इमा आपो मधुमतीर् घृतश्च्युतो
ब्रह्मणां हस्तेषु प्र पृथक् सादयामि ।
यत्काम इदम् अभिषिञ्चामि वो ऽहम्
इन्द्रो मरुत्वांस् तद् अदाद् इदं मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमा आपो मधुमतीर् घृतश्च्युतो
ब्रह्मणां हस्तेषु प्र पृथक् सादयामि ।
यत्काम इदम् अभिषिञ्चामि वो ऽहम्
इन्द्रो मरुत्वांस् तद् अदाद् इदं मे ॥
सर्वाष् टीकाः ...{Loading}...
०८ इदं मे ज्योतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं मे ज्योतिर् अमृतं हिरण्यं
पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं नि दधे ब्राह्मणेषु
कृण्वे पन्थां पितृषु यः स्वर्गः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं मे ज्योतिर् अमृतं हिरण्यं
पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं नि दधे ब्राह्मणेषु
कृण्वे पन्थां पितृषु यः स्वर्गः ॥
सर्वाष् टीकाः ...{Loading}...
०९ अग्नौ तुषां आ
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नौ तुषाꣳ आ वप जातवेदसि
परः कम्बूकान् उप मृढ्य् एतान् । (Bhatt. apa … etāṃ)
एतं शुश्रुम गृहराजस्य भागम्
अथो विद्म निरृतेर् भागधेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नौ तुषाꣳ आ वप जातवेदसि
परः कम्बूकान् उप मृढ्य् एतान् । (Bhatt. apa … etāṃ)
एतं शुश्रुम गृहराजस्य भागम्
अथो विद्म निरृतेर् भागधेयम् ॥
सर्वाष् टीकाः ...{Loading}...
१० श्राम्यतः पचत एधि
विश्वास-प्रस्तुतिः ...{Loading}...
श्राम्यतः पचत एधि सुन्वतः
स्वर्गं लोकम् अधि रोहयैनम् ।
येन रोहात् परम् आपद्य यद् वयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्राम्यतः पचत एधि सुन्वतः
स्वर्गं लोकम् अधि रोहयैनम् ।
येन रोहात् परम् आपद्य यद् वयः ॥