०८७

सर्वाष् टीकाः ...{Loading}...

०१ भूतिश् च वा

विश्वास-प्रस्तुतिः ...{Loading}...

भूतिश् च वा अभूतिश् च (Bhatt. vābhūtiś)
रातयो ऽरातयश् च याः ।
क्षुधश् च सर्वास् तृष्णाश् च
शरीरम् अनु प्राविशन् ॥

०२ निन्द्याश् च वा

विश्वास-प्रस्तुतिः ...{Loading}...

निन्द्याश् च वा अनिन्द्याश् च (Bhatt. vānindyāś)
यश् च हन्तेति नेति च ।
शरीरं श्रद्धा दक्षिणा-
-अश्रद्धा चानु प्राविशन् ॥

०३ विद्याश् च वा

विश्वास-प्रस्तुतिः ...{Loading}...

विद्याश् च वा अविद्याश् च (Bhatt. vāvidyāś)
यच् चान्यद् उपदेश्यम् ।
शरीरं ब्रह्म प्राविशद्
ऋचः सामाथो यजुः ॥

०४ आनन्दा नन्दाः प्रमुदो

विश्वास-प्रस्तुतिः ...{Loading}...

आनन्दा नन्दाः प्रमुदो
ऽभीमोदमुदश् च ये ।
हसो नरिष्टा नृत्तानि
शरीरम् अनु प्राविशन् ॥

०५ आलापाश् च प्रलापाश्

विश्वास-प्रस्तुतिः ...{Loading}...

आलापाश् च प्रलापाश् च-
-अभीलापलपश् च ये ।
शरीरं सर्वे प्राविशन्न्
आयुजः प्रयुजो युजः ॥

०६ प्राणापानौ चक्षुः श्रोत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणापानौ चक्षुः श्रोत्रम्
अक्षितिश् च क्षितिश् च या ।
व्यानोदानौ वाङ् मनः
शरीरेन त ईयन्ते ॥

०७ आशिषश् च प्रशिषश्

विश्वास-प्रस्तुतिः ...{Loading}...

आशिषश् च प्रशिषश् च
संशिषो विशिषश् च याः ।
चित्तानि सर्वे संकल्पाः
शरीरम् अनु प्राविशन् ॥

०८ त्वराश् च वै

विश्वास-प्रस्तुतिः ...{Loading}...

त्वराश् च वै धृतयश् च-
-ईडाशीः सूनृतेरा । (Bhatt. cerāḥ śrīḥ)
शरीरं सर्वे प्राविशन्न्
ऋतरीर्ष्यायुधो मृधः ॥

०९ आस्नेयीश् च वास्तेयीश्

विश्वास-प्रस्तुतिः ...{Loading}...

आस्नेयीश् च वास्तेयीश् च
त्वरणाः कृपणाश् च याः ।
गुह्याः शुक्रिया या स्थूला
बीभत्सुर् असाधयन् ॥ (Bhatt. bibhatsur)

१० अस्थि कृत्वा समिधम्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्थि कृत्वा समिधं
तद् अष्टापो असादयन् ।
रेतः कृत्वाज्यं
देवाः पुरुषम् आविशन् ॥