०८६

सर्वाष् टीकाः ...{Loading}...

०१ कुतः केशान् कुतः

विश्वास-प्रस्तुतिः ...{Loading}...

कुतः केशान् कुतः स्नाव
कुतो अस्थीन्य् आभरत् ।
अङ्गा पर्वाणि मज्जानं
को मांसं कुत आभरत् ॥

०२ यदा केशान् अस्थि

विश्वास-प्रस्तुतिः ...{Loading}...

यदा केशान् अस्थि स्नाव
मांसं मज्जानम् आभरत् । (Bhatt. māsaṃ, misprint)
शरीरं कृत्वा पादवत्
कं लोकम् अनु प्राविशत् ॥ (Bhatt. taṃ)

०३ संसिचो नाम ते

विश्वास-प्रस्तुतिः ...{Loading}...

संसिचो नाम ते देवा
ये संभारैः समभरन् ।
सर्वं संसिच्य मर्त्यं
देवाः पुरुषम् आविशन् ॥

०४ शिरो हस्ताव् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

शिरो हस्ताव् अथो बाहू (Bhatt. hastād)
जिह्वां ग्रीवाश् च कीकसाः ।
पृष्टीर् बर्जह्ये पार्श्वे
कस् तत् सम् अदधाद् ऋषिः ॥

०५ ऊरू पादाव् अष्ठीवन्तौ

विश्वास-प्रस्तुतिः ...{Loading}...

ऊरू पादाव् अष्ठीवन्तौ
श्रोणी हस्ताव् अथो मुखम् ।
त्वचा प्रावृत्य तत् सर्वं
संधा सम् अदधान् मही ॥

०६ यत् तच् छरीरम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् तच् छरीरम् अपयत्
संधया संहितं महत् ।
येनेदम् अद्य रोचते
को अस्मिन् वर्णम् आभरत् ॥

०७ सर्वे देवा उपाशिक्षन्

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वे देवा उपाशिक्षन्
तद् उ जानाद् वधूः सती ।
ईशा वशस्य या जाया
सास्मिन् वर्णम् आभरत् ॥

०८ यदा त्वष्टा व्यतृणत्

विश्वास-प्रस्तुतिः ...{Loading}...

यदा त्वष्टा व्यतृणत्
पिता त्वष्टुर् य उत्तरः ।
गृहं कृत्वा मर्त्यं
देवाः पुरुषम् आविशन् ॥

०९ स्वप्नो वै तन्द्रीर्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वप्नो वै तन्द्रीर् निरृतिः
पाप्मानो नाम देवताः ।
जरा खालित्यं पालित्यं
शरीरम् अनु प्राविशन् ॥

१० स्तेयं दुष्कृतं वृजिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तेयं दुष्कृतं वृजिनं
सत्यं यज्ञो यशो महः ।
बलं च क्षत्रम् ओजश् च
शरीरम् अनु प्राविशन् ॥