०८४

सर्वाष् टीकाः ...{Loading}...

०१ शर्कराः सिकता अश्मान

विश्वास-प्रस्तुतिः ...{Loading}...

शर्कराः सिकता अश्मान (Bhatt. sikatāśmāna)
ओषधयो वीरुधस् तृणा ।
अभ्राणि विद्युतो वर्षम्
उच्छिष्टे संश्रिता श्रिता ॥

०२ राद्धिः प्राप्तिर् व्याप्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

राद्धिः प्राप्तिर् व्याप्तिः
समाप्तिर् मह एधतुः ।
अत्याप्तिर् उच्छिष्टे भूतिर्
आहिता निहिता हिता ॥

०३ यच् च प्राणति

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च प्राणति प्राणेन
यच् च पश्यति चक्षुषा ।
उच्छिष्टाज् जज्ञिरे सर्वे
दिवि देवा दिविश्रितः ॥

०४ प्राणापानौ चक्षुः श्रोत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणापानौ चक्षुः श्रोत्रम्
अक्षितिश् च क्षितिश् च या ।
(…) ॥ (see 3cd)

०५ देवाः पितरो मनुष्या

विश्वास-प्रस्तुतिः ...{Loading}...

देवाः पितरो मनुष्या
गन्धर्वापसरश् च ये ।
(…) ॥ (see 3cd)

०६ ऋचः सामानि छन्दांसि

विश्वास-प्रस्तुतिः ...{Loading}...

ऋचः सामानि छन्दांसि
पुराणं यजुषा सह ।
(…) ॥ (see 3cd)

०७ अथर्वाङ्गिरसो ब्रह्म सर्पपुण्यजनाश्

विश्वास-प्रस्तुतिः ...{Loading}...

अथर्वाङ्गिरसो ब्रह्म
सर्पपुण्यजनाश् च ये ।
(…) ॥ (see 3cd)

०८ आनन्दाश् च प्रमोदाश्

विश्वास-प्रस्तुतिः ...{Loading}...

आनन्दाश् च प्रमोदाश् च-
-अभीमोदमुदश् च ये ।
उच्छिष्टाज् जज्ञिरे सर्वे
दिवि देवा दिविश्रितः ॥